________________
४३३
विभक्तार्थनिर्णये । नामार्थान्वयिनः षष्ठार्थी अकारकतया संज्ञायन्ते तव शेषः “षष्ठो शेष” इति सूत्रविवेचने प्रागेव दर्शितः । शेषत्वेन प्रतियोगित्वादिकं न षष्ठार्थः किं तु प्रतियोगत्वत्वादिनेति ज्ञापयितुं " तुल्यार्थैर तुलोपमाभ्यां तृतीयाऽन्यतरस्यामि ति सूत्रं तदेतत् तृतीयविवरणे व्याख्यातम् । चतुर्थ्या सह वैकल्पिकों षष्ठों ज्ञापयति । "वतुर्थी चाथिष्यायुष्य मद्रभद्रकुशल मुखार्थहितैः" इति सूत्रम् । आशिषि गम्यमानायां श्रायुष्यमद्रभद्रकुशल सुखाथहितइत्येतैः शब्दैर्योगे चतुर्थी विभक्तिर्भवति चकारात्ष
।
भवतीत्यर्थकम् । मद्रभद्रशब्दयोः पर्याययोर्ग्रहणात् दर्शितशब्दानां पर्यायशब्देन योगेऽपि चतुर्थी भवति । आयुष्यं चिरजीवितं वा कृष्णाय कृष्णस्य वा भूयात् gora चतुर्थीषट्योः संबन्धोऽर्थ आयुष्येऽन्वेति । आयुष्यं दीर्घजीवितं तथा च कृष्णसंबन्धि दीर्घजीवितमाशंसाविषयभवनकर्तृ इत्यन्वयबोधः । मद्रं भद्रं वा ब्राह्मगाय ब्राह्मणस्य वा भूयाद् इत्यत्र मंद्रममङ्गलनिवृत्तिः कुशलमारोग्यं सुखमानन्दो वा शिष्याय शिष्यस्य वा भूयात् । सुखं स्वतः काम्यो गुणविशेषः । अर्थः प्रयोजनं वा शिष्याय शिष्यस्य वा भूयात् । प्रटत्युद्देश्यं प्रयोअनं हितं पथ्यं वा शिष्याय शिष्यस्व वा भूयात् । हितं कालान्तरभाविन इष्टस्य साधनं तादृशमिष्टसाधनं वा बोध्यमिति दर्शितरीत्या सर्वचान्वयो बोध्य इति । आशित्युषादानात् मार्कण्डेयस्यायुष्य मस्तीत्यादौ न चतुर्थीति | "यर्थे चतुर्थी वक्तव्येति" वार्तिक षध्यर्थे शेषे चतुर्थीमपि विधत्ते छन्दसि । यथा या नखानि कृ
५५
Aho ! Shrutgyanam