________________
જરૂર
पष्ठीविभक्तिविचार। अका इति"सर्वो हन्दी विभाषैकवसवती"त्येकवचनम् एतदर्थमेव भविष्यदाधमर्ययोर्गम्यमानयोरिति व्याख्यातं गम्यमानत्वं तु प्रकृतिप्रत्ययाभ्यामन्येन जाप्यमानत्वं शतं दायौत्यादावपि णिनिप्रत्ययस्य कर्तवार्थः । पाधमयं तु मानान्तरगम्यमेव इक्ष्वाकूणामित्यादौ षया पपत्तिर्दर्शितैवेत्यलं विस्तरेण । कृत्यप्रत्यययोगे वै. कल्पिकौं षष्ठौं ज्ञापयति । "कृत्यानां कर्तरिवे"ति सवं कृत्यानां प्रत्ययानां योगे कर्तरि वा षष्ठी भवतीत्यर्थकम् । मया मम वा सेव्यो हरि इत्यादौ तृतीयाषष्ठयोः कतत्वमर्था: सेबने धात्वर्थेऽन्वेति यथा च मत्कत - कसेवनकर्म हरिर्वाक्यार्थः । एवं भवता भवतो वा क- . ट: कर्तव्य इत्यादावपि वाक्यार्थी बोध्यः । कर्तरीत्युपादानात् कर्मणि न षष्ठया विकल्पः यथा गेयो माणवक: सानामित्यादौ । अव भव्यगेये"ति सूत्रेण कर्तरि भव्यगेयादिशब्दानां निपातनात् । अनभिहिते कर्मणि कृ"द्योगे षष्ठौ । पचैलिमा माषा इत्यादौ कर्मकर्तरि केलिमरादो कर्मक/रुभयोरभिधानात् । कृद्योगे न ष'ष्ठीति ।"उभयप्राप्ती कृत्ये षष्ठयाः प्रतिषेधोवक्तव्य"इति 'गुणकर्मणि षष्ठया निषेधः । यथा नेतव्याः बजे गावः कृष्णेन कृष्णस्य वेत्यादौ । अत्र बजादौ गुणकर्मणिन षष्ठीति।
इति विभक्त्यर्थनिर्णये कारकषष्ठायनिर्णयः ।
Aho! Shrutgyanam