________________
ट
विभक्त्यर्थनिर्णये ।
४३१ कूणां दुरापार्थं त्वदधौना हि सिद्धय” इत्यच"अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम्" इत्यत्र च खलर्थयोगे कर्तरि न षष्ठी किं तु शेषे । स च दुरोप सिद्धौ वा दुर्वचे विस्मये वाऽन्वेति । विश्वस्य गोप्ता भुवनस्य कर्तेत्यादौ दृचो योगे कर्मणि षष्ठी साधुरेव । “गवुल्तचाविति सूत्रेण सामान्यत: कर्तरि खुलतचोविधानात् । तचः तन्प्रत्याहारान्तर्भावविरहात् न चैवं “न लोक"तिसूत्रे तनो ग्रहणं व्यथं सर्वत्र तचैव षष्ठापपत्तेरिति वाच्यम् । तचशततनां स्वरे भेदात् छन्दसि शततुनोः प्रयोगे षष्ठीनिषेधार्थत्वात् । शाब्दिकास्तु कर्तकर्मणोः कृती"ति षष्ठीविधिरनित्य एव । “तदहमिति निर्देशात् । अत एव धायैरामोदमुत्तममि"ति भट्टिकाव्यं संगच्छते। अतएव निषेधोऽप्यनित्यः इक्ष्वाकूणामित्यादिदर्शितप्रयोगादित्याहुः । तन्मन्दम् "तदहमि"तिनिर्देश तदित्यव्ययस्य लुप्तषष्ठयन्तत्वात्तथैव साहचर्यात् “तत्र तस्येवे"ति पूर्वसत्रण मप्तम्यन्तषष्ठयन्ताभ्यामिवार्थे वतेविहितत्वात् । काशिकात्तौ तु तदितिहितीयासमर्थादहतीत्येतस्मिन्नर्थ वतिप्रत्ययो भवतीतिव्याख्यातं तत्राहतीतितिङन्तानुरोधेन हितौयासमर्थादित्युक्तम् । वस्तुतस्तस्यतिषष्ठीसमर्थादहमित्यर्थे वतिः प्रत्ययो भवतौतिव्याख्यानमुचितमिति धायैरामोदमित्यादौ प्रकरणादिना भविष्यत्त्वावगमात् । णप्रत्ययस्थाकारेण योगेन षष्ठौ न चाकारयोगे कुत: षष्ठीनिषेध इति वाच्यम् अकेनोरिति सूत्रे ऽकारस्यापि ग्रहणात् । अकश्च अश्च अकाः अकाश्च दून् च अकेनौ तयोरित्याकारग्रहणात् ।
Aho ! Shrutgyanam