________________
४३०
पष्ठीविभक्तिविचारः। मधौयन् । तुन् । कर्ता लोकान् । “हिषः शतुर्वा वचनम्" इति सुरस्य मुरं बा विषन् इत्यादौ वैकल्पिकी षष्ठौ । शाननः कर्तार्थः सोमकर्मकपवनकर्ता वाक्यार्थः । चानशादीनां ताच्छोल्यादिकमर्थो वाक्यार्थः खयमूह्यः सुधियेति । कदन्तरापि कृद्योगषष्ठ्या असाधुतां ज्ञापयति । "अकेनोर्भविष्यदाधमर्ययो" रिति सत्वम् । अकस्य भविष्यति काले गम्यमाने दूनस्तु भविष्यदाधमयेयोर्योगे षष्ठी न भवतीत्यर्थकम् । सज्जनान्पालकोऽवतरति । श्रोदनं भोजको ब्रजति इत्यादौ क्रियार्थक्रियायां गवुलो विधानात् पालनादिक्रियाया भविष्यत्वमदिवगम्यते "भविष्यति गम्यादय" इत्यधिकारी विधानात् तुमन्ण्वलोभविष्यत्कालार्थकत्वमित्यन्यदेतच्चिन्त्यम् । गम्यादिशब्दानां निपातनात् भविष्यगमनकर्ट वाचकत्वं गम्यादौ प्रकृतिप्रत्ययव्युत्पादनं रूढगवादिशब्द वाचायसामर्थ्यमेव गम्यादाविन्प्रत्ययस्यैव वा भविष्यकालार्थकत्वं न तु ण्वुल इति। क्रियार्थक्रियायां गवुलो भविष्यदधिकारे विधानस्य निष्प्रयोजनत्वात् न यतीताया वर्तमानाया वा क्रियायाः क्रियार्थकवं सम्भवतीति । एवं सज्जनं पालकोऽवतरिष्यति भविष्यति वेत्यादौ कतरि ण्वुल्विधानऽपि पालनेऽर्थाद्भविष्यत्त्वावगमे कर्मणि न षष्ठी। व्रजं गमौ गामो वा इत्यादौ भविष्यत्त्वावगमादिनो योगे कर्मणि न षष्ठी । शतं दायी दायो वेत्यत्राधमांवगमादिनादियोगे कर्मणि न षष्ठी । सर्वोऽयं निषेधः कारकषष्ट्या न तु शेषे षष्या अत एव ब्राह्मणस्य कुर्वन् उत्तमर्गस्य दायीत्यादौ षष्ठी। इखा
Aho! Shrutgyanam