________________
विभक्त्यर्थनिर्णये। मत्वं प्रतीयते हितीये विप्रस्य गां दीव्यति विप्रो गां दोव्यतीत्यत्र हितौयया षष्ठ्यपवाद इति । तिङन्तविशेषस्य कर्मणि षौं ज्ञापयति । "प्रेष्यब्रुवोहविषो देवतासंप्रदाने” इति सूत्रम् । इष्यतेर्दैवादि कस्य लोगमध्यमपुरुषैकवचनं प्रेष्य इति तत्साहचर्याङ्गविरपि तथाभूत एव गृह्यते इति प्रष्यब्रूहिइत्येतयोः तिङन्तयोः कर्मणि हविषः षष्ठी भवति देवतायां संप्रदाने सतौत्यर्थकं हविषो हविर्वाचक शब्दादित्यर्थः । अग्नये छागस्य हविषो वपाया मेदसो वा प्रथ्य अग्नये छागस्य हविषो वपाया मेदसो वाऽनुहोत्यादौ प्रपूर्वकस्येष्यतरमुपूर्वकस्य ब्रुवेश्च दानमर्थः षष्यास्तु कर्मत्वमर्थस्तथा चाग्निसंप्रदानताकच्छागकर्मताकाशंसाविषयदानकर्तत्ववांस्त्वमित्यादिरन्वय बोध: प्रेष्यबोरित्युपादानात् अग्नये छागं हविर्वपां मेदो वा जुहुधीत्यादौ धात्वन्तरकर्मणि न षष्ठी । हविष इत्युपादानादग्नये गोमयानि प्रेष्येत्यादौ कर्मणि न षष्ठी । देवतासंप्रदान इत्युपादानात् माण काय पुरोडाशं प्रेध्येत्यादौ कर्मणि न षष्ठौ । “हविषः प्रस्थित स्थ प्रतिषेधो वक्तव्य"इति वार्तिकम् प्रस्थितशब्दसमानाधिकरणहवि:शब्दात्षष्ठौं निषेधति । यथा इन्द्राग्निभ्यां छागं हविर्वपां भेदः प्रस्थितं प्रेष्येत्यादौ प्रस्थितं प्रकर्षण स्थितं प्रकर्षस्तु प्रोक्षणाभिमन्त्रणयथोक्त स्थानकत्वं बोध्यमिति । संप्रदान% षष्ठौं ज्ञापयति । चतुर्थ्यर्थे बहुलं छन्दसि इति सूत्र छन्दसि चतुर्थ्यर्थे संप्रदानत्वादौ षष्ठौ विभक्तिभवति बहुलमित्युपादानात् चतुर्थी व चि
Aho ! Shrutgyanam