________________
४१४
षष्ठीविभक्तिविचारः। तुः स्मरणमित्यादिकः प्रयोगः शेषत्वविवक्षायामसमस्त एव साधुः । हरिस्मरणमित्यादिसमासस्तु शेषत्वाविवक्षायां कृद्योगषष्ट्या बोध्यस्तव कारकपूर्वकत्वात् । गतिकारकेत्यादिना विहितः कदुत्तरपदप्रकृतिखरो मध्योदात्तो भवति शेषषष्ठ्या समासोपगमे त्वन्तोदात्तस्तत्पुरुषस्वरः स्यादिति स्वरार्थेयमष्टसूत्रीति निर्गलिताथः । किं च मातुः स्मृतमित्यादौ समासांभावोऽष्टसल्या ज्ञाप्यते कृद्योगप्रयुक्तकर्मषष्ट्या निष्ठायां निषेधात् कमविषया षष्ठी निष्ठायां प्रतिषिध्यत इत्युक्तोः शेषषधा समासस्तु दर्शिताष्टसूत्रीज्ञाप्यनिषेधस्य विषय एवेति वदन्ति । अवेदं चिन्त्यं हरिस्मरणमित्यादौ कदुत्तरपदप्रक्वतिस्वरी मध्योदात्तो नान्तोदात्तः शेषषष्ठीतत्युरुषस्वर इति नायं शेषषष्ठीतत्पुरुष इति तु तदैव संगच्छते यदि च सुगन्धिं पुष्टिवर्द्धनमित्यादिवेदे कारकस्य शेषत्वविवक्षायां पुष्टिवई नशब्दस्य शेषषष्ठीतत्पुरुषसमासोपगमेऽन्तोदात्तस्वर उपलभ्येत नायं हष्टचर इति न किञ्चिदेतत् मातः स्मृतमित्यादावपि न शेषषष्ठया निषेधः न लोकेतिनिषेधस्य "नपुंसके भावे उपसंख्यानमितिवार्तिकेन प्रतिप्रसवात् । न च कर्मषष्ठ्या निष्ठायां निषेध इति वाच्यं निष्ठायां निषेधस्याप्रामाणिकत्वात् प्रामाणिकत्वे तु क्तवतुमात्रविषयत्वात् । अत एव ग्रामस्य गतमोदनस्य भुक्तमित्यादिको भावाधिकरणकान्ते कर्मविषयषष्ठीप्रयोगः प्रामाणिकानां संगच्छते। किं च दर्शिताष्टसल्याः शेषषष्ठीसमासनिषेधफलकत्वाभ्युपगमे सुरेशिता जनेशिता
Aho! Shrutgyanam