________________
विभक्त्यर्थनिर्णये।
४१३ त्वं वाक्यार्थः । व्युत्पत्तिवैचित्र्येण समानाधिकरणे एकधर्मावच्छिन्ने धाल्वर्थे कृत्वोऽर्थप्रत्ययार्थस्योत्पत्तेरन्वयः कृत्वोऽर्थप्रत्ययार्थविशिष्ट धात्वर्थ षष्यर्थयाधयट स्यापि व्युत्पत्तिवैचिच्यणान्वयः । अत एव कृवोऽर्थप्रयोगोपादानं संगच्छते तदुपादानफलं तु कृत्वोऽर्थप्रत्ययप्रयोगशून्ये अन्हि भुङ्क्ते शेते वेत्यादौ कालेऽधिकरण न षष्ठी । शाब्दिकास्तु जोऽविदर्थस्येतिसूत्रेण करणेऽधौगत्यादिना व्यवहृपणोरित्यन्तेन सूत्रषटकेन कर्मणि कृत्वोऽटेतिसूत्रेणाधिकरण कारके यत्षष्ठीविधानं तच्छेषत्वेन विवक्षिते बोध्यं “षष्ठी शेष” इत्यतः शेष इत्यस्यानुत्ते
र्जागरूकत्वात् न चैवं“षष्ठी शेषे” इत्यनेन षष्यां सिद्धायां दर्शिताष्टसूत्रीप्रणयनं व्यर्थमिति वाच्यम् । सर्पिषो ज्ञानमित्यादौ समासनिषेधफल कतया तत्मार्थक्यात् । न च दर्शिताष्टसूया न समास नित्तिफलकलं किं तु समासे षष्ठौलुगनिवृत्तिफलकत्वं तत एव सार्थक्य संभवादिति वाच्यम् । अलुक्समासे प्रमाणाभावात् समासनिषेधफलकत्वस्यानुशासनिकस्यौचित्यात् तथा च वार्तिक "प्रतिपदविधाना षष्ठी न समस्यत" इति । हरिरप्याह ।
कारकैव्य॑पदिष्टे च श्रूयमाणक्रिये पुन:। प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ इति प्रतिपदमित्यत्र प्रतियोगे इत्थंभावाख्याने वितीया संबन्धमभिधत्ते तथा च पदसंबन्धिनी षष्ठी कारकव्यपदेशवतौ श्रूयमोण क्रिये सूत्रे प्रोता समासनिवृत्त्यर्थेत्यन्वयबोधः । पदसंवन्धस्तु कारकविशेषसंवन्धेन धातुविशेषसंबन्धी बोध्यः । इत्यं च सर्पिषो ज्ञानं मा
Aho ! Shrutgyanam