________________
कारकसामान्यविचारः। रहात् षष्यर्थशेषऽतिव्याप्तिः स्यादिति क्रियानिरूपकत्वापलक्षितत्वेन सम्बन्धी विवक्षितस्तेन तथोपलक्षितेन स्वरूपसम्बन्धेन षष्टयर्थशेषस्य चेष्टान्वय विषयकशाब्दप्रकारत्वान्न तत्वातिव्याप्तिः । यदि च सप्तम्या हिविधमाधेयत्वमर्थस्तदा तगडुलन्न पचतीत्यादाविव तण्डुलं नेत्यादौ तण्डलकमंत्वस्य नअर्थान्वयविषयकशाब्दप्रकारकर्मत्वादावव्याप्तिरमम्भवो वा स्यात् तहारणाय निमतसम्वन्धावच्छिन्नत्वं स्वप्रकारताविशेषणं बोध्यम् । यदि च धातुविनाकृतात् तण्डुलं नेत्या दिवाक्या कर्मत्वादेनजर्थान्वयविषयकशाब्दबोधो नाभ्युपेयते नजर्थे कर्मत्वादेरन्वयबोधे नञो धातु समभिव्याहारस्य तन्त्रत्वादिति । तदा निरुतसम्बन्धाबच्छिन्नत्वं न स्वपकारताविशेषणं तगडुलं न पचतीत्यादी कर्मत्वस्य नञर्थान्वयविषयकशान्दप्रकारत्वेऽपि तादृशशाब्दस्य धातुपदव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वान्न तत्राव्याप्तिरिति । एवं निरुक्तशाब्दसामान्यस्य लक्षणत्वे श्रोतरि निरक्तशाब्दसामान्यस्य समवायेन सत्वात्तवातिव्याप्तिः स्यादनिरूपकत्वमुक्तं निरूपकत्वं प्रकारत्वं बोध्यम् । तावतापि धात्वर्थतावच्छेदकादावतिक्याप्तिरिति सुवर्थत्यमुक्तं सुवर्थत्वं तु सुजन्योपस्थितिप्रकारोभवद्धर्मत्वं बोध्यमिति । अत्रयमुपपतिनिरर्थकपदासमभिव्याहृतहितीयार्थकर्मत्वप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दं प्रति भावप्रत्ययान्यप्रत्ययप्रकृतिधौतुजन्योपस्थितेविशेष्यतासम्बन्धेन हेतुत्वं सेन घटादिपदेन लक्षणया पाकोपस्थिती योग्यतासत्वेऽपि तगडुलं
Abo! Shrutgyanam