________________
विभक्त्यर्थनिर्णये ।
१३
विना निवेशयितुमशक्यत्वात् । अनुदण्डं जातिरित्यादौ शाब्दप्रकारतया दण्डक र्मत्वेऽव्यात्यनुहारात् । न चास्तु स्वार्थकेत्यादिकं धर्मविशेषणं तथापि सुबन्यजन्योपस्थितिप्रकारत्वाभावस्य वैशिष्ट्य धर्मे धर्मविशेषणीभूततादृशोपस्थितिप्रकारत्ने वा निवेशनीयमित्यक्ष विनिगमकाभाव इति वाच्यम् । पुरुषान्तरीयतद्वितजन्योपस्थितेः सार्वदिकत्वसम्भवनेन शतकरणत्वेऽव्याप्तिसम्भावनात् मुबन्यजन्योपस्थितौ शाब्दे च तत्पुरुषीयत्वं निवेश्याव्याप्तिसम्भावननिरासेऽपि पुरुषभेदेन का रकभेदापत्तेः तादृशोपस्थितिप्रकारतायां तु मुत्रन्य जन्योपस्थितिप्रकारत्वाभावस्य वैशिष्ट्यनिवेशे तत्प्रतियोगितायां स्व निरूपक ज्ञानसमानाधिकर णज्ञानौयत्व सम्बन्धेनाप्यवच्छिन्नत्वप्रवेशात् पुरुषान्तरीयतहितजन्योपस्थिते: सावैदिकत्वसम्भावनेऽप्यव्याप्ति सम्भावननिरासात् तत्पुरुषीयत्वानिवेशेन विनिगमकसम्भवात् । एवं गेहे पचतीत्यादी सप्तम्यर्थाधेयत्वस्य गेहे घट इत्यादौ शाब्दप्रकारतया तत्त्राव्याप्तिः स्यात्तद्दारणाय क्रियानिरूपकत्वोपलक्षितसम्बन्धावच्छिन्नत्वं स्वप्रकारताविशेषणम् । तेन गेहे घट इत्यादौ सप्तम्यर्थाधेयत्वस्याधेयत्वीय स्वरूपसम्वन्धेन शाब्दप्रकारत्वेऽपि क्रियानिरूप के कर्तृकर्मान्यतरघटितपरम्परासम्वन्धावच्छिन्नाधेयत्वीय स्वरूप संबन्धेन तत्र शाब्दप्रकारत्वविरहान्नाव्याप्तिरिति । तत्र हि क्रियानिरूपकत्वविशिष्ट सम्बन्धावच्छिन्नत्वोक्तौ कान्तस्य वस्यतीत्यादौ पष्टार्थशेषस्य वासनिरूपकत्व विशिष्टस्वरूपसम्बन्धेन कान्तस्य चेष्टा इत्यादौ चेष्टान्वयविषयकशाब्दप्रकारत्ववि
Aho ! Shrutgyanam