________________
३९०
पञ्चमीविभक्तिविचारः ।
विभाषा गुणेऽस्त्रियामिति सूत्रं गुणं हेतौ विभाषा पञ्चमो भवति न तु स्रोलिङ्गे इत्यर्थकम् । जाद्यान्नाडेन वा बद्ध इत्यादी पञ्चमौतृतीययोर्हेतुत्वमर्थो ज्याद्यहेतुकबन्धनकर्मेत्यन्वयबोधः । चत्र जाड्यं मोहो मिथ्याज्ञानमिति यावत् तस्य गुणत्वं स्फुटमेव गुण इत्युपादानात् धनेन कुलमित्यादौ न पञ्चमी गुणेऽपि स्त्रियां न पञ्चमी यथा बुद्ध्या मुक्त इत्यादौ यत्र सूत्रे विभाषोपदेशादृणे कर्तरि हेतौ पञ्चम्येव तृतीयाऽपवादश्च प्रतीयत इति । अत्र विभाषेति योगविभागादगो गुणेऽपि स्त्रियां च क्व चितौ पञ्चमौ यथा धूमादग्निमान् नास्ति घटो ऽनुपलब्धेरित्यादाविति शाब्दिकाः । तच्च न शोभनं तावताऽपि घटो दण्डाद्दाहो दहनादिपञ्चम्यनुपपत्तेः धूमादित्यादौ ज्ञापकत्व स्वरूपहेतुत्वस्य सूवादलाभात् ज्ञापकत्वे पञ्चम्यनुपपत्तेश्च । तमाग प्रधानेऽकर्तरीति यावत् ऋणस्य पूर्वसूत्रेणोपादानात् ऋणान्यस्मिन्नकर्तरि हेतौ विभाषा पञ्चमी' भवतौतिवार्थं इति अन एव प्रतिनिधिप्रतिदाने च यस्मादिति हेतुपञ्चमोनिर्देशोऽपि संगच्छते । एवं घटी दण्डादित्यादी पञ्चम्या जनकत्वमर्थः तच्च निरूपकतया घटादावपरपदार्थेऽन्वेति प्रकृत्यर्थस्याधेयतथा पञ्चम्यर्थजनकत्वेऽन्वयस्तथा च दण्डवृत्तिजनकतानिरूपको घट इत्यन्यबोध इति प्राञ्चः । एकदेशिनस्तु निरूपकत्वादिसंबन्धस्य वृत्त्यनियामकस्य प्रतियोगिताऽनवच्छेदकत्वात् दाहो दहनात् न तु जलादित्यादौ जनकत्वाभातत्सम्भवात् निरूपकत्वान्यसंबन्धावच्छिन्नप्रति
و
Aho ! Shrutgyanam