________________
विभक्त्यर्थनिर्णये ।
३८९
धः । यदि निपातार्थस्याभेदान्वयो न मन्यते तदा प्रतेः कार्यसदृशकार्यकारित्वमेवार्थ इति । एबश्वो रथात्प्रतौत्यादौ रथजन्यगमनसदृशगमन कतव इत्यन्वयबोधः । प्रतिदानं द्वितीयदानं सदृशदानमिति यावत् माषानमै तिलेभ्यः प्रतियच्छतीत्यादौ पञ्चम्यर्थ हेतुत्वस्य माषदानेऽन्वयः माषाणां श्यामत्वादिना तिलसादृश्यात् । यत्तु काशिकायां प्रतिदानं दत्तस्य प्रतियातनमित्युक्तम् तत्र प्रतियातनं प्रतियत्नफलकं प्रतिप्रयोजनकं प्रत्युपकारमिति याव तृ तथा चैतत्संप्रदानक तिल हेतुक प्राषकर्मकप्रत्युपकारकदानकर्तृत्वं वाक्यार्थः । यत्तु ऋणापाकारणं प्रतिदानमिति तच्च सूवत्तिविरुद्धं तथा हि सूत्रे प्रतिदानग्रहणं न हि ऋणप्रयोग उद्दारो वा दानमिति वृचौ दत्तस्य प्रतियातनमित्युक्तं न हि ऋणं दत्तं भवतौति । एवं वलयौ मित्राय कुण्डलाभ्यां प्रतियच्छतीत्यादौ नलोऽश्वत्हृदयम्टतुपर्णायाच हृदयात्प्रतियच्छतीत्यादौ च दर्शितरीत्याऽन्वयो बोध्यः । सूत्रे वृत्तौ च यमादिति पञ्चमी हेतुत्वार्थिकै वान्यथाऽनुपपत्तेरिति । ऋणे हेतौ पञ्चमीं ज्ञापयति । अकर्तयणे पञ्चमौ इति सूत्रं कर्तृवर्जिते ऋणे हेतौ पञ्चमी विभक्तिर्भवतीत्यर्थकम् । शताद् बद्धः सहस्राइड इत्यादी पञ्चम्या हेतुत्वमर्थः ऋणात्मकशतहेतुकबन्धन कर्मेत्यन्वयबोधः तरि ऋणे हेतौ न पञ्चमौ किं तु तृतीयैव यथा शतेन बन्धित इत्यादौ श्रत्र प्रयोजकत्वाद्वणं कर्तृभूतमिति । गुणे हेतौ वैकल्पिक पञ्चमीं ज्ञापयति ।
क
Aho! Shrutgyanam