________________
पञ्चमीविभक्तिविचारः। विधिकपश्चिमदेशव्यापकत्वं च पृष्ठौ प्रतीयते पारभ्यान्तवाक्य पूर्ववत्तात्पर्यग्राहकमेवेति बदन्ति । तदपि चिन्त्यम् । आशैशवादधौतमायौवनादित्यादी योवनोत्तरकालपूर्वीभूतशेशवपूर्वकालोत्तरकालव्यापकत्वस्याध्ययने विरहात् तादृशानध्यायरोगादिकालेऽध्ययनबिरहादिति तस्मात्संबन्धिसंवन्धाभावः संबन्धइतरसंबन्धश्चाभिविधिराडोऽर्थः संबन्ध्यन्वयिनिरूपितवमितरान्वयिप्रतियोगित्वं च पञ्चम्यर्थ आपरमाणोः पृथिवीत्यादौ परमाणुतादात्म्यवतो जलादिपरमाणोस्तादाम्याभाव: पार्थिव परमाणुतादाम्यं पार्थिवपरमाभिन्नघणुकादितादात्म्यं च पृथिव्यां प्रतीयते याहशसंबन्धस्याभावो भासते तादृश एव संबन्ध इतरसंबन्धश्च भासते अतः समुद्रसंयुक्तशैवालतादात्म्याभावसमुद्रसमकालिकन्वसमुद्रेतरशदवत्तादात्यानां गगने सत्त्वेऽपि प्रासमुद्रागगनमिति न प्रयोगः न वा गगनममवेतशब्दतादात्म्याभावगगनतादात्म्यगगनेतरटथिव्यादिसमकालिकत्वानां गगने सत्यापि आगगनागगनमितिप्रयोगः । आचैत्राच्छोतं भवतीत्यत्र उत्तरकालाधयत्वस्याभाव आधयत्वमितराधेयत्वं चाङोऽर्थः उत्तरत्वं ध्वंसाधिकरणत्वं बोध्यं पञ्चम्याः प्रतियोगित्वं निरूपितत्वं चार्थ: प्रतियोगित्वध्वंसेतरत्वयोर्निरूपितत्वमाधयत्वेऽन्वेति प्राधेयत्वं तु कालिकविशेषणतावच्छिन्नं बोध्यं तथा च चैत्रप्रतियोगिताकोत्तरकालाहत्तिचैत्रवृत्तिचैवेतरकालत्ति शीतं तसवनं वा वाक्यार्थः । शाप्रयागादन्तर्वेदिरित्यादी पूर्वदेशतादात्म्याभावस्ता
Aho ! Shrutgyanam