________________
विभक्त्यर्थनिर्णये ।
३८५
थिवीत्व सामानाधिकरण्येन परमाणोस्तदन्यस्य च तादायं प्रतीयत इति केचित् परे तु तद्यापकत्वं तदितरसंबन्धश्चाभिविधिः व्यापकताघटक इतरनिरूपितश्चैक एव बोध्यस्तेन संबन्धान्तरेगा व्यापकत्वे नातिप्रसङ्घः आपरमाणोः पृथिवीत्यादौ पृथिवीत्वसामानाधिकरण्येन पच्यमानपरमाणुव्यापकत्वं परमाणुभिन्नतादाम्यं च प्रतीयत इत्याहुः । तदुभयमपि चिन्त्यम् । आागुणाज्जातिरितिप्रयोगप्रसङ्गात् । अभ्ये तु कार्तिकमारम्याचैवाच्छीतमित्यत्राङ उत्तरकालोऽर्थस्तस्य खपूर्वका - लब्यापकत्वेन स्वाष्टत्तित्वेन चापरपदार्थेऽन्वयः पञ्चम्या उत्तरत्वाम्वयिनिरूपकत्वमर्थः भारभ्यशब्दस्य पूर्वकालोत्तरकालोऽर्थः पूर्वत्वान्वयिप्रतियोगित्वं द्वितीयाऽर्थस्तावता कार्तिकपूर्वकालोत्तरकाललाभः स चायं काल: संसर्गीभूतव्यापकताघटकख पूर्वकालस्य विशेषणं न तु काप्यन्वेति पूर्ववदेव कार्तिक पूर्व कालोत्तरस्व पूर्वकालनिष्ठाभावप्रतियोगिताऽनवच्छेदकधर्मवत्त्वं व्यापकत्वं संसर्गः आरभ्यान्तवाक्यं दर्शितव्यापकता संसर्गकान्बयतात्पर्यग्राहकं तथा च चेचोत्तरकालावृत्तिकार्तिक पूर्वकालोत्तरीभूत चैत्रोत्तरकाल पूर्वकालव्यापकं च शौतमित्यन्वयबोधः । एवं काशीत आपाटलिपुत्रादृष्टो देव इत्यादौ पूर्वदेश आङोऽर्थः पूर्वत्वान्वय्यवधिमत्त्वं पञ्चम्यर्थस्तावता पाटलिपुत्रपूर्वदेशी लभ्यते तस्य तु काशीपश्चिमदेशावधिकपूर्वी भूल व पश्चिम देशव्यापकत्वेन खावृत्तित्वेन चापरशब्दार्थेऽन्वयस्तथा च पाटलिपुत्त्रपूर्वदेशावृत्तित्वं काशौपश्चिमदेशावधिक पूर्वभृतपाटलिपुत्रपू
४८
Aho ! Shrutgyanam