________________
३८४
पञ्चमीविभक्तिविचारः ।
रूपकत्वं प्रागभावान्वयिप्रतियोगित्वं च पञ्चम्यर्थस्तथा च कृष्णनत्र मौप्रतियोगिता कप्रागभावका लावृत्तिः कृष्णनवमीनिपिताधिकरणकाल ध्वंशाधिकरणकालस्वरूपोत्तरकालवृत्तिः दशमीप्रतियोगिताकप्रागभावकालिकौ देवौकर्मिकपूजा वाक्यार्थः कृष्णनवम्यादिसकलतिथिवृत्तित्वं तु पूजाया प्रतितिथिपूजाङ्घविशेषोपदेशादवगम्यते नवम्यादितिथिस्तु तत्तञ्चन्द्रकालानुक्रियाप्रचयाधिकरणकालस्वरूपा तथाविधक्रियाऽपचयमा वावस्थायजन्य पदार्थस्वरूपा वेत्यन्यदेतत् देशस्वरूपीभयावधियोगो यथा काशिकायाम् आपाटलिपुत्रादृष्टो देव मथुराया इत्यादौ चव देशिक संसर्गावच्छिन्नाधेयत्वस्याभावस्तथाविवं पश्चिम देशाधेयत्वं च प्रथमस्याङऽर्थः पञ्चम्यास्तु श्राधेयत्वान्वयिनिरूपितत्वं पश्चिमत्वाaaraधिमत्त्वं चार्थः । एवं द्वितीयस्याङस्तथाविधावेयत्वाभावस्तथाविधं पूर्वदेशाधेयत्वं पञ्चम्यास्तु निरूपित
मिचार्थस्तथा च पाटलिपुत्रावृतेः पाटलिपु वावधिक पश्चिमवृत्तेः मथरानिरूपिताधेयत्वाभाववत्या मथुरावधिक पूर्वदेशष्टत्तेष्ट ष्टेः कर्ता देव इत्यन्वयबोधः श्रीकृष्ण नवमौ पूर्वतिथि आशुक्कदशमि देवौं पूजयेदिति आपाटलिपुत्रमामथ दृष्टी देव इति चाव्ययौभावसमासे त्वाङो निपाततया तदर्थे भेदान्वये बाधकाभावादर्शित एवान्वयबोधः । इयांस्तु विशेषः । समासे वि भक्ते लृप्ततया पञ्चम्यर्थयोर्निरूपितत्वप्रतियोगित्वाद्योः संसर्गीतया भानमिति । आङो ऽभिविधिरप्यर्थः स च तत्संबन्धतदितरसंबन्धावापरमाणोः पृथिवीत्यादौ पृ
Aho ! Shrutgyanam
-