________________
३८३
विभक्त्यर्थनिर्णये। शतादात्म्यं चाडोऽर्थस्तत्र संयुक्तदेशे आप्रयोगाधिकरया पार्थिवावधिक पूर्वत्वं दक्षिणत्वं पश्चिमत्वमुत्तरत्वे समुदितं प्रत्येकं वा तात्पर्यवशादवगम्यते अतः समुद्रवर्तिनां न दर्शितप्रयोगस्तथा च समुद्रभिन्ना तादृशपार्थिवावधिक पूर्वेण समुद्रसंयुक्तवेलादिदेशेनाभिन्ना क्षितिरित्यन्वयबोध: । क चित्सजातीयोऽप्यवधिः यथा मिथ्याज्ञानमा परमात्मन इत्यादौ अत्र समवेतत्वाभावो भोक्तममवेतत्वं चाडोऽर्थः भोक्ता तु साजात्यसंबन्धवानिति नानुपपत्तिः भोक्तापकतासंबन्धन समवायेऽन्वयस्तथाविधसमवायावच्छिन्नाधेयत्वमवधि विना मिथ्याज्ञानानुपपन्नमिति स्थावरजीवन्मुक्ता दिर्भोक्ताऽवधिस्तस्याबधित्वं परमात्मन दूव बोध्य तथा च स्थावरजीवन्मुतासमवेतत्वविशिष्टं तथाविधभोक्तसमवेतत्वमथ वा स्थावरजीवन्मुक्तभिन्नभूता एव भोक्ततया भासन्ते तथा च परमात्मासमवेतं म्थावरजीवन्मुक्त भिन्नभोक्तव्यापकसमवायावच्छिन्नाधेयत्ववन्मिथ्याज्ञानमित्यन्वयबोध: । क चिन्न हितोयो ऽवधिर्यथा आमुक्तेः संसार दूयादौ अत्र मुक्तिकालात्तित्वं मुक्तिप्रागभावका लवत्तित्वं च पूर्वावधिरहिते संसारे प्रतीयते क चिद् हितोयावधियोगः यथा तत बारम्य तां देवीमादशम्या: प्रपजयेदित्यादी अन पूर्वकालाटत्तित्वमुत्तरकालत्तित्वम् आरभ्य शब्दस्यार्थः तत्र पूर्वत्वघटकप्रागभावान्वयिप्रतियोगित्वमुत्तरत्वषटकाधिकरणान्वयिनिरूपकत्वं च पञ्चम्या अर्थः । आङस्तु समानकालिकत्वाभावः प्रागभावकालिकत्वं चार्थः कालान्वयिनि
Aho! Shrutgyanam