________________
__३८१
विभत्त्यर्थनिर्णये। व्यापकताभाने मानाभावात् आकडारादेका संज्ञेत्यत्व व्यापकताभानस्थासम्भवाच्च तथाह्येष संजाविधिन कडारसूत्रपूर्वसूबव्यापक: । इको गुणधी न धातुलोप आर्धधातुके इत्यादिपर्व सूत्र तहिरहान्नाप्यव्यवहितपूर्वसूवव्यापकः वाऽऽहिताग्न्यादिषु इत्यव्यवहितपूर्वसूचे तहिरहात् एवं प्रभासत आगङ्गासागरात् मृद इत्यादी प्रभासपूर्वभूतगङ्गासागरपश्चिमदेशानां सरित्कासारदेवखातानां मृदन्यत्वात् मृदां तादृशदेशाव्यापकत्वात्तझाबायोगाच्च एबमापरमेश्वरादात्मनां कर्मबन्ध इत्यादौ पूर्वोत्तरादिदेशकालान्यतरस्वरूपसौनोऽप्ययोगादिति । एवमभिविधावपि व्यापकत्वस्य सौम्नश्चानुपपत्तिहहनीया तस्मान्मर्यादाथामाङः संबन्धाभावः संबन्धिसंबन्धश्वार्थः आकडारादेका संज्ञा इत्यत्न कडारसूत्रमंबन्धस्याभावः संबन्धस्तु प्रतिपाद्यत्वं कडारसंवन्धिनस्तत्पूर्वस्य सूत्रस्य संबन्धः प्रतिपाद्यत्वमेकसंजाविधी प्रतीयते तत्र पञ्चम्या निरूपितत्वमर्थस्तथा च कडारसूत्रनिरूपितप्रतिपाद्यत्वाभाववान् कडारपूर्वसूत्रप्रतिपाद्य एक संज्ञाविधिरित्यन्वयबोधः । अभावप्रतियोगी संबन्धिनिरूपितश्चैक एव संबन्धो बोध्यः तेन समुद्रतोदात्म्याभावसमुद्रसमकालिकत्वसंबन्धयोश्च गगने सत्त्वेऽपि त्रासमुद्रागगनमिति न प्रयोगः यदि च कडारसवोत्तरसूप्येकसंज्ञाविधिविरहो ऽभिसंहितस्तदा प्रागभावानधिकरणसूत्रप्रतिपाद्यत्वाभाव एव प्रकृते मर्यादा तत्र प्रागभावानधिकरणसंबन्धाभाव आङोऽर्थः पञ्चम्याः प्रतियोगित्वमर्थः प्रागभावान्वेति कडारसत्रमतियोगिताक
Ano! Snrutgyanama