________________
३६८ पञ्चमीविभक्तिविचारः। "न्दान्तरितजन्मनोवस्तुनोः सामयिकमपरत्वविशेषमभिदधत्तसंसर्गगुणेन तदन्तरालकालावयवानभिधत्ते स्वीक्रियते च संख्याया व परत्वादरपि समवान्याख्येन येन केनापि संसर्गण गुणाकर्मणोरपि व्यवहारावैशिष्टय तथा च गामाद्योजनं योजने वा वनमित्यादौ पञ्चम्या अबधिमत्त्वं प्रथमायाः सप्तम्या वा अधिकरणत्वमर्थ इति ग्रामावधिकयोजनात्मकपरत्वाधिकरणां वनमित्यन्वयबोध: कार्तिक्या आग्रहायणी मासे इत्यादौ तु कातिश्यादिपदं तदुत्पन्नस्थिरद्रव्ये लाक्षणिक तथा च कार्तिक्युत्पन्नस्थिरट्रव्यावधिकमासस्वरूपपरत्वाधिकरणाग्रहायण्युत्पन्नस्थिरद्रव्यमित्यन्वयबोध इति पाहुः । अन्यादिशब्दयोगे नानाविधाथि कां पञ्चमौं ज्ञापयति । अन्यारादितरतेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति सूत्रम् । अन्यः श्रारात् इतर: तेतिस्वरूपतः शब्दाः दिक शब्दा दिग्भेदार्थ कशब्दाः पूर्वादयः न तु दिकसामान्यार्थ का दिगादयः अञ्चूत्तरपदा: शब्दाः दिकभेदार्थकाः प्रागादयः 'न तु सध्पङ देवव्यङादयः । आच्छ त्यय आहिप्रत्ययश्च एतैः शब्दोगे पञ्चमौ भवतीत्यर्थकम् । अन्येतरयोरुभयोरुपादानं पर्यायग्रहणार्थ तेन परभिन्नादिशब्दयोगेऽपि पञ्चमी साधुः । अन्यशब्दस्य भेदविशिष्टोऽर्थ: भेदविशिष्टार्थ कपातिपदिकशब्दः पर्यायः तादृशः शब्दो रूढ इतरपरादिः कुत्तहितान्तादिभिभिन्नभेदवदादिः शक्रादन्यो नहुष इत्यत्र पञ्चम्याः स्वपक्रत्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नपुतियोगित्वमथ स्तच्च व्युत्प
Aho! Shrutgyanam