________________
TASHE
विभक्त्यर्थनिर्णये ।
तिवेचित्येणान्यपदार्थ कदेशे भेदे स्वनिरूपितानुयोगि त्वेन संबन्धेनान्वेति प्रत्यर्थस्याधेयतया तथाविधपतियोगित्वेऽन्वयः तथा च शक्रदृत्तिशकत्वावच्छिन्नप्रतियोगिताकभेदवदभिन्नो नहुष इत्यन्वबोधः । न च प्रतियोगित्वमाचं पञ्चम्यर्थोऽस्तु किमवच्छिन्नान्तनिवेशेनेति वाच्यं तथासति घटादन्यो घट इति प्रयोगप्रसङ्गात् । घटनिष्ठप्रतियोगिताकस्य नौलषटभेदस्य पौतघटे सत्त्वात् । ननु प्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नत्वेनाधेयत्वेन चोभाग्यां संबन्धाभ्यां पञ्चम्यर्थे प्रतियोगित्वेऽन्वयोपगमान्नोक्तदोष इति चेत्सत्यं तथासति पञ्चमो सोधुत्वार्थिकैव प्रकृत्यर्थस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन संबन्धेनान्यत्वेऽन्वय इत्येव ज्यायः अत एवान्वयितावच्छेदकावच्छिन्न प्रतियोगिताकत्वमिह व्युत्पत्तिवललभ्यं न हि भवति नौलो घटो घटादन्य इत्यनुमानदौधितावुक्तम् । समानविभक्तिकनामार्थयोरेव भेदान्वयो न व्युत्पत्तिसिद्धः श्रत एव विभक्तेर्निरर्थकतावादिनां मते राज्ञः पुरुष इत्यादी खखामिभाव संबन्धेन राजपदार्थस्य पुरुषपदार्थेऽन्वय इति यदि च विरुदविभक्तिक नामार्थयोरपि न भेदान्वयोऽभ्युपेयते । तदा प्रतियोगित्वमात्रं पञ्चम्यर्थस्तस्य प्रकृत्यर्थता - वच्छेदकावच्छिन्नप्रतियोगित्वोय निरूपितानुयोगितयाभेदेऽन्वयोऽथ वा दर्शितोभयसंबन्धेन प्रकृत्यर्थस्य प्रतियोगिल्वे तस्य खनिरूपितानुयोगितया भेदेऽन्वयः अन्वयबोधस्तु पूर्ववदेव एवं शक्रादितरः परो भिन्न भेदवान्वेत्यादावन्वयो बोध्यः । इयांस्तु विशेषः । भिन्न इत्यव भेदा
४७
Aho ! Shrutgyanam
३६५
8