________________
विभक्त्यर्थनिर्णये ।
३६७ मर्थः तच्च योजनशब्दार्थ स्य योजनपरिमाणविशिष्टस्यैकदेशे योजनपरिमाणे व्युत्पत्तिवैचिल्यादन्वेति अवधिमत्त्वं तु घटितत्व बोध्यं ग्रामावधिघटितत्वं तु ग्रामाधिकरण देशपरिमाण घटितत्वं योजनपरिमाणे तहटितत्वं तदारभ्यत्वमथ वा सन्तानसापेक्ष ज्ञानविषयत्वं संयुक्तदेशसंयोगः समानावयवावच्छिन्नः सप्तम्या: प्रथमायाश्चार्थ: । एवं ग्रामावधिकयोजनपरिमागावदेशसंयक्तदेश संयोगवहनमित्यन्वयबोध: समानावयवावच्छिन्नत्वनिवेशादग्रपृष्ठादिभिन्न भिन्नावच्छेदेन योजनवनयोः संयोग तथा न प्रयोगः । एवं कार्तिक्या मासे श्राग्रहायणी इत्यत्र पञ्चम्या अवधित्वमेवार्थः । तच्च विंशद्दिनवर्तिनी मासशब्दार्थस्यैकदेशे विंशहिनेऽन्वेति । सप्तम्यास्तु विंशहिननाशोत्पत्तिकालिकोत्पत्तिकत्वमर्थः तथा च कार्तिक्यबधिकं विंशद्दिनवर्तमानीयविंशद्दिननाशोत्पत्तिकालोत्पतिमती अाग्रहायणौत्यन्वयबोधः । * एवं कुरुक्षेत्राच्चत्वारि योजनानि चतुर्ष योजनेषु वा पृथदकमित्यत्र चतुर्योजनपरिमाण विशष विशिष्टः चतुर्योजनशब्दयोः पथमान्तयोः सप्तम्यन्तयोश्चार्थ : तादृशपरिमाणविशेष पञ्चम्यर्थावधित्वस्यान्वयः । एवं कार्तिक्यास्विमासे त्रिषु मासेषु वा माघौत्यत्र माप्तत्रयवर्ती विमासशब्दार्थ : तत्र पञ्च यर्थावधित्वस्यान्वय: पूर्ववदितरान्वय इति । गुरुचरणास्तु योजनादिशब्दा मुख्यया वृत्त्या परत्वविशेषमभिदधति गौण्या तु नदभिव्यञ्जकसंयुक्तप्तं योगघटकान् परत्वप्रतियोगिकापरत्वाधिकरणदेशान्मासादिपदमपि तावदादित्यपरिस्स
15
Aho! Shrutgyanam