________________
३६६
पञ्चमीविभक्तिविचारः। भक्तिसमभिव्याहृतस्य ल्पबन्तस्य लोपस्तत्कारकार्थिका तत्र पञ्चमी घनान्निःसृत्य विद्योतते इत्यत्रापादानार्थकपञ्चमौसमभिव्याहृतस्य ल्यबन्तस्य लोपे अपादानाथिकैव पञ्चमौ यथा वलाहकाविद्योतते विद्यदित्यत्र पवम्या अपादानत्यमर्थ: लोपो निःसृत्येति ल्पबन्तस्य स्मारकोऽथ वा घनापादानकनिःमरणस्य तथाविधमुत्तरकालिकत्वं पञ्चम्यर्थः विद्योतनेऽन्वेति पूर्ववदन्वयबोध इति नात्वापि यादृच्छिक: नि:मृत्येत्यन्याहारः किं त्वानुशासनिकति । यदि चासनात्प्रेक्षत इत्यत्राप्यध्यास्याधिष्ठाय वेत्यादेय॑वन्तस्य लोपे कर्मण्येव पञ्चमौ न तु कारकान्तर इति कर्मणोति नोपलक्षणमिति विभाव्यते तदा वलाहकाविद्योतते तडिदित्यत्रापि विभिद्य विदौर्य वेत्यादिपबन्तस्य लोपे कर्मण्येव पञ्चमी न तु निःसृत्येत्यध्याहार इति । - इति विभक्त्यर्थनिर्णये कारकपञ्चम्यर्थनिर्णयः ।
नामार्थान्वयिनः पञ्चम्यर्था अकारकतया संज्ञायन्ते । तत्र यतश्चाध्वकालनिर्माणं ततः पञ्चमी तानादध्वन: प्रथमासप्तम्यौ कालात्मप्तमौ वक्तव्येति वातिकं यतो यदवधिक अध्वकालयोनिर्माणं निर्गतं मानं परिमाणं तहाचकात्पञ्चमी भवति तथाविधपचमीयुक्तादध्वावयववाचकपदात्पथमासप्तम्यौ तथाकालावयववाचकात्सप्तमौमात्रं भवतीत्यर्थकं कालस्य परिमाणं स्वावयवकालसंख्या बोध्या पञ्चग्यान्वयं नामार्थयोरध्वकालविशेषयोपियति यथा ग्रामोद्योनने योजनं वा वनमित्यादौ अव पञ्चम्या अवधित्व
Aho! Shrutgyanam