________________
विभक्त्यर्थनिर्णये ।
३६५ णेऽर्थे पञ्चमी विभक्तिर्भवतीत्यर्थक कच्छशब्दस्य दुः-- खमर्थः कतिपयशदस्य संख्यात्वाबान्तरजातिमती संख्याऽर्थ: । असत्त्ववचनत्वं द्रव्यवाचिपदासामाना-- धिकरण्यं बोध्यं चकारात्तृतीयाऽपि भवति स्तोकेन स्तोकाहा अल्पेन अल्पाहा कृच्छ्रण कच्छाहा कतिपयेन कतिपयादा मुक्तो मुच्यते वा इत्यादी ढतीयापञ्चम्योः करणव्यापारोऽर्थः । स च प्रयोज्यतया धात्वन्वेति व्यापार प्रकृत्यर्थस्य प्रयोज्यतयाऽन्वयस्तथा च स्तोक. प्रयोज्यव्यापारजन्यमोचनकर्मेत्यादिरन्वयबोधः बहुतरदाने देषादल्पसंख्याया द्वेषानुत्पादद्वारा स्वाश्रयज्ञाने प्रयोजकत्वमिति दानं व्यापार: कच्छ्रस्य स्वविषयको देषो व्यापारो बोध्यः । द्रव्यपदसामानाधिकरण्येन पञ्चमी यथा स्तोकेन विषेण हत इति । ल्यप् लोप कर्मण्युपसंख्यानमिति वार्तिकं ल्यबन्तधातुलोपे सति कर्मवाचकपदात्पञ्चमी विधत्ते यथा प्रासादात्प्रेक्षते इति अत्र लोपः ल्यबन्तस्यारुह्येत्यादेः स्मारकः पञ्चम्या कर्मत्वमथः । अथ वा पञ्चम्याः कर्मताविशिष्टारोहणस्य सामानाधिकरण्यावच्छिन्नमुत्तरकालिकत्वमर्थः प्रेक्षणादावन्वेति तथा च प्रासादकर्मकारोहगास्य समानाधिकरणमुत्तरकालिकं यत्प्रेक्षणं तत्कर्तृत्वं वाक्यार्थः कर्मणी- . त्युपलक्षणं कारकान्तरवाचकपदादपि पञ्चमी जेया। यथाऽसनात्प्रेक्षत इति अनाधिकरणवाचकात्यञ्चमी उपविश्येति ल्यबन्तस्य लोप: स्मारकः पञ्चम्या अधिकरणत्वमर्थः अथ वाऽऽधे यताविशिष्टोपवेशनस्य तथाविधमुत्तरकालिकत्वं पञ्चम्यर्थः एवं यत्कारकार्थकवि
Aho! Shrutgyanam