________________
पञ्चमीविभक्तिविचारः । क्षेत्रक्षयोः मूलन्तसत्ताप्रयोजकत्वविरहात् प्रयोजकत्वं तु प्रकृते नियामकत्वं व्यापकत्वमिति यावत् । एवं “वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्ये"त्यनापि शक्रधनुःखण्डस्य प्रथमावयवसत्तानियामकं वल्मोकाग्रं शक्रधनुःखण्डस्य दर्शितप्रकाशे हेतुः मेघाहिदाप्रभवतितरामित्यादौ विद्यदादिप्रथमावयवसत्तानियामको मेघादिदर्शितप्रकाशे हेतुरिति अत्र प्रभवतिपर्यायस्याविभवत्यायोगे न पञ्चमी किन्तु सप्तमी यथा वल्मों काग्रे शक्रधनु:खण्डमाविर्भवतीति केचित् । वस्तुतस्तु सूचे भुव इत्युपादानाद्दर्शितप्रकाशार्थकस्य भूधातोर्योग पञ्चमौति ज्ञायते । अन्यथा प्रभुवो भव इत्येव मुनिः सूत्रयेत् प्रभव इत्यत्र प्रशब्दोपादानं भुवो दर्शितप्रकाशार्थकत्वज्ञापनार्थमिति वल्मीकादाविर्भवति प्रादुर्भवति वा शक्रधनुरित्यादिप्रयोगोऽपोष्ट एवेति । अत्र भौचाऽर्थानामित्यादिसप्तसूत्री प्रत्याख्याता फणिभाष्यकृनिस्तत्र चौरेभ्यो बिभेति भयान्निवर्तते त्रायते रक्षणेन निवर्तयति। पराजयते ग्लान्या निवर्तते । वारयति प्रवृत्तिं प्रतिबनन् निवर्तयति । निलौयत निलयनेन निवर्तते । अधोते उपाध्यायान्निःसरन्तं शब्दं गृह्णाति । ब्रह्मणः प्रपञ्चो जायते ततो निर्गच्छति । प्रभवति भूत्वानि:सरति इति धावूनां स्वेच्छयाऽर्थकल्पनेन शाब्दिकानां प्रत्याख्यानोपपादनं शास्त्रमर्यादालङ्घनफलकं स्वातन्यमेव । करणे पञ्चमौं ज्ञापयति । करणे च स्तोकाल्पकृच्छकतिपयस्यासत्त्ववचनस्य इति सर्व स्तोकाल्पकच्छकतिपयइत्येतेभ्यः शब्देभ्योऽसत्त्ववचनेभ्यःकर
Aho! Shrutgyanam