________________
. . विभक्त्यर्थनिर्णये । त्येऽपि न प्रक तित्वं ट्रव्यत्वादेः प्रक,तिताऽनवच्छेदकत्वात् । पुनस्य शुक्रशोणितनाशजन्यत्वापि पितरौ न प्रकृतिः पित्रादिगतचैत्रत्वादिजातेरवयबिमात्तितया शुक्रोद्यत्तित्वात् । एवं दनः दुग्धं शरस्य शृङ्ग भस्मनः काष्ठं प्रकृतिरित्यादौ दुग्धपरमाणूनां दुग्धत्वेन नष्टदुग्वसाजात्यं शृङ्गावयवस्थ शृङ्गत्वेन नष्टशृङ्गसाजात्यं काष्ठपरमाणू ना काष्ठत्वेन नष्टकाष्ट साजात्यं दुग्धत्वादिजातेरवयवावयविवृत्तिवात् भवत्युपपत्तिरिति विभाव्यते तदा पक्षम्या: स्वप्रकृत्यर्थतावच्छेदकत्वोपलक्षितजातिमत्प्रतियोगिको नाशोऽर्थस्तत्र प्रकृत्यर्थस्याधे यतयाऽन्वयः तथानिधनाशस्तु प्रयोज्यतया जन्यादिधात्वर्थ उत्पत्तावन्वेति एवं दुग्धाधि भवति काष्ठासम्म भवति शृङ्गाच्छरो जायते गोमयाट् वृश्चिक उत्पद्यते पाषाणाद् भेको भवतीत्यादौ दुग्धत्तिदुग्धनाशप्रयोज्योत्यल्याश्रयो दधीत्यादिरन्वयबोधः । अत एव हेतुपञ्चम्या नास्य सूत्रस्य गतार्थत्वं नाशप्रयोज्यत्वस्वरूपविलक्षणार्थप्रतिपत्तिफलकत्वात् एतेन यदत्र ब्रह्मणः प्रजा: प्रजायत इत्याादाहरणं हेतुपञ्चम्याः सूर्य प्रत्याख्यातमिति निरस्तमुदाहरणस्य दर्शितत्वात् ब्रह्मण इत्यादिरनोदाहरणप्रयोगः सूत्रार्थानभिज्ञानविज़म्भित एवेति। . अङ्गादङ्गात्संभवसि हृदयादभिजायसे।
आत्मा वै पुत्रनामाऽसि त्वं जौवं शरदः शतमिति॥ श्रुतौ तु नापादानपञ्चमी । किं तु हेतुपञ्चमौति नानुपपत्तिरिति । प्रभवतियोगे पञ्चमी ज्ञापयति । भुवः प्रभव इति सूत्रम् । भवनं भूः भुवः कर्तुः प्रभवो
Aho! Shrutgyanam