________________
पञ्चमीविभक्तिविचारः ।
योऽर्थस्तत्कारकमपादानसंज्ञ' भवतीत्यर्थकम् । प्रभवः प्रकाशनाधिकरगां भवनं प्रथमः प्रकाश: हिमवतो गङ्गा प्रभक्तौत्यत्र पञ्चम्या अधिकरणत्वमाधेयत्वं वाऽर्थः प्रभवत्यर्थे प्रथमप्रकाशे ऽन्वेति हिमवदृत्तिप्रथमप्रकाशवती गगेत्यन्वयबोध इति वदन्ति । सबन्धाधीनत्वं पञ्चम्यर्थः धात्वर्थे प्रथमप्रकाशेऽन्वतोत्यन्ये । दर्शनयोग्यत्वाभावावच्छेदकदेशाव्यवहितदेशावच्छेदेन दर्शनयोग्यत्वं प्रकाशः प्रभवत्यर्थः द्वितीयदेशान्वयितादात्म्यं पम्यर्थस्तथा च हिमवदभिन्नो यो दर्शनयोग्यत्वाभाबावच्छेदकदेशाव्यवहित देश प्तदवच्छिन्न दर्शनयोग्यताबतौ गङ गेति वाक्यार्थ इति गुरुचरणाः । वस्तुतस्तु प्रथमप्रकाशः प्रभवत्यर्थो न सम्भवति प्रकाशे दर्शनखरूपे ज्ञानसामान्यखरूपे वा प्रथमत्वस्यासम्भवात् । तथा ' हि तत्प्रागभावाधिकरणसमयवर्तित्वं तत्प्रथमत्वं तच्च प्रकृते न सम्भवति हिमवदन्यदेशे प्रकाशस्यापि प्रकाशान्तरप्राग्भावाधिकरणसमयवर्तित्वात् न चात्र सजातौयाधिकरणसमयध्वंसानधिकरणसमय वर्तित्वं
३६२
प्रथ
मत्वं तच्च प्रथमप्रकाश एव द्वितीयादिप्रकाशस्य प्रथमप्रकाशाधिकरणसमयध्वं साधिकरणसमय वर्तित्वान्न तत्वमिति वाच्यं दर्शनस्वरूपाणां ज्ञानस्वरूपाणां वा प्रकाशानामनादौ संसारे दर्शनाधिकरणसमय ध्वंसाधिकरणसमयवर्त्तित्वात्प्रथमत्वाप्रसिद्धेः । न च गङगाविषयकत्वेन प्रकाशस्य सोजात्यं विवक्षणीयमतो नाप्रसिद्धिरिति वाच्यं हिमवद्गङ गासंबन्धात्प्राग्वर्तिनां जनानां गङ्गोपनीतभानादिसम्भवादप्रसिद्दितादव
Aho! Shrutgyanam