________________
P
विभक्त्यर्यनिर्णये ।
३५६
कर्मra संवन्धप्रयोजक क्रियादिमभवं तन्त्रमतः सान्त्रिध्याभावस्वरूपस्य संबन्धाभावप्रयोजकस्य फलस्य प्रयोज्यस्य सवेऽपि वह्निकूपादेर्न कर्मत्वमिति माणवकादग्निं कूपमन्वाद्दा वारयतीति न प्रयोगः संबन्धप्रयो
कक्रियादेवान्धे विद्यमानस्याग्नौ कूपे च विरहादिति माणवका देस्तथात्वात्कर्मत्वमेवेति । निलोयत्यादियोगे पञ्चम ज्ञापयति । अन्तर्धी येनादर्शनमिच्छति इति सूत्रम् । अन्तर्द्धिनिमित्तं येनादर्शनमात्मनस्तत्कारकमपादानसंज्ञकं भवतीत्यर्थकं मातुर्निलीयते बाल इति प्रयोगः । अत्र स्वकर्मकदर्शनाभावप्रयोजको व्यापारो निलोय तेरर्थः पञ्चम्यास्तु वृत्तिमन्वप्रकार केच्छाविषयत्वमर्थः स्वकर्मकादर्शनेऽन्वेति । प्रकृत्यर्थस्य निरूपकतया वृत्तिमत्त्वेऽन्वयस्तथा च मातृनिरूपितवृत्तिमत्त्वप्रकारकेच्छाविषयस्य स्वकर्मकदर्शनाभावस्यानुकूलो व्यापारी वाक्यार्थः इष्यते हि बालेन माता मां मा द्राक्षीदिति मातृष्टत्तित्वेन स्वकर्मकदर्शनाभावः अस एव मातुर्निलौयते बाल: माता पुनरेनं पश्यत्येवेत्यादयः प्रयोगाः सूत्रेऽप्येतदर्थमिच्छतिग्रहणमिति शाब्दिकसंमतः पन्थाः । वस्तुतस्तु दशनाभावप्रयोजकव्यापारो नान्तर्धिस्तथासति सूत्रेऽन्तर्धावित्यस्य वैयर्थ्यापत्तेः किं च स्वकर्मकादर्शनेच्छया येन शत्रुचचुर्नाशितं तब सोऽयं 'शत्रोर्निलीयत इति प्रयोगप्रसङ्गः तस्माच्चक्षुः संयोगप्रति - बन्धकदेशसंयोगोऽन्तर्धिशब्दार्थः स एव निलोयतेरर्थः प्रतिबन्धकस्तु व्यवहित देशसंयोगः अत एव व्यवधानमउन्तर्डिरिति काशिका। यदि च तमसि निलोयत इति
Aho ! Shrutgyanam