________________
पञ्चमीविभक्तिविचारः। तत्र न पञ्चमी वारणार्थकधात्वर्थान्तभूतसंबन्धवत एवापादानवविधानात् प्रतियोग्यविशेषितस्य फलीभूतस्याभावस्य प्रतियोग्येव कर्म न त्वधिकरणं यथा घट रहयतीत्यादौ घटादिः प्रतियोगी तथाऽनापौति प्रतियोगिन्येव हितीया यथा कूपगमनं कूपसंयोगं वा वारयति पान्य इत्यादौ अत्र द्वितीयाया: प्रतियोगित्वमधस्तच फलेभावेऽन्वेति तथा च कूपगमन प्रतियोगिताकस्य कूपसं योगप्रतियोगिताकस्य वाऽभावस्य प्रयोजको व्यापारस्तदनुकूल कृतिमान् पान्थ इत्यन्वयबोधः । एवं मांसभोजनं मांसकण्ठसंयोगं वा वारयति मुनिरित्यादावयन्वयो बोध्य: । यत्राआवेऽधिकर गास्य संबन्धो विवक्षितस्तत्र शेषे षष्ठय व प्रमाणं यथाऽन्धस्य कूपगमनं कूपसंयोगं वा वारयति दयालुः मांसभोजनं पुत्वस्य वारयति मुनि: पापकर्म स्वस्य वारयति विहानिति अबान्वयबोधः पूर्ववदेव विशेषस्तु प्रतियोग्यन्विते प्रयोजकव्यापारविशेष भावे षष्यर्थसंबन्धमानमिति । एवं वारयत्यादेर्दर्शितार्थकतायामेव दर्शितनिखिल प्रयोगोपपत्तिः स्यागामावप्रयोजकव्यापारी वारयतिप्रयोगानुत्पत्तिश्चति । वारयतिपर्याया वर्जयतिनिवर्तयतिप्रभूतयो बोध्यास्तेन यवेभयो गां वर्जयतीत्यादिः प्रयोग अत एव यवेभमा गां वारयति निवर्तयतीति काशिका। यत्तु सूत्रौयप्सितशब्देनानौमित स्यापि ग्रहणं तेनाग्नेर्माण वकं वारयतीतिप्रयोग इति शाब्दिकैरुक्तं तत्सूत्रार्थानभिज्ञानविजम्भितम् ईभितशब्देन संबन्धवतोऽपादानस्वाभिधानादित्युक्त्वात् दर्शित कार्यस्वरूपफलवतः
Aho! Shrutgyanam