SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ पञ्चमीविभक्तिविचारः। तत्र न पञ्चमी वारणार्थकधात्वर्थान्तभूतसंबन्धवत एवापादानवविधानात् प्रतियोग्यविशेषितस्य फलीभूतस्याभावस्य प्रतियोग्येव कर्म न त्वधिकरणं यथा घट रहयतीत्यादौ घटादिः प्रतियोगी तथाऽनापौति प्रतियोगिन्येव हितीया यथा कूपगमनं कूपसंयोगं वा वारयति पान्य इत्यादौ अत्र द्वितीयाया: प्रतियोगित्वमधस्तच फलेभावेऽन्वेति तथा च कूपगमन प्रतियोगिताकस्य कूपसं योगप्रतियोगिताकस्य वाऽभावस्य प्रयोजको व्यापारस्तदनुकूल कृतिमान् पान्थ इत्यन्वयबोधः । एवं मांसभोजनं मांसकण्ठसंयोगं वा वारयति मुनिरित्यादावयन्वयो बोध्य: । यत्राआवेऽधिकर गास्य संबन्धो विवक्षितस्तत्र शेषे षष्ठय व प्रमाणं यथाऽन्धस्य कूपगमनं कूपसंयोगं वा वारयति दयालुः मांसभोजनं पुत्वस्य वारयति मुनि: पापकर्म स्वस्य वारयति विहानिति अबान्वयबोधः पूर्ववदेव विशेषस्तु प्रतियोग्यन्विते प्रयोजकव्यापारविशेष भावे षष्यर्थसंबन्धमानमिति । एवं वारयत्यादेर्दर्शितार्थकतायामेव दर्शितनिखिल प्रयोगोपपत्तिः स्यागामावप्रयोजकव्यापारी वारयतिप्रयोगानुत्पत्तिश्चति । वारयतिपर्याया वर्जयतिनिवर्तयतिप्रभूतयो बोध्यास्तेन यवेभयो गां वर्जयतीत्यादिः प्रयोग अत एव यवेभमा गां वारयति निवर्तयतीति काशिका। यत्तु सूत्रौयप्सितशब्देनानौमित स्यापि ग्रहणं तेनाग्नेर्माण वकं वारयतीतिप्रयोग इति शाब्दिकैरुक्तं तत्सूत्रार्थानभिज्ञानविजम्भितम् ईभितशब्देन संबन्धवतोऽपादानस्वाभिधानादित्युक्त्वात् दर्शित कार्यस्वरूपफलवतः Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy