________________
विमत्यर्थनिर्णये । ३५३ णसंयोगः पसंयोगाभावं पुष्पसंयोगाभावं वा प्रयोजयति । एवं वन्यादेरादिसंयोगः क्षेत्रसंयोगाभावं प्रयोजयति एवं पञ्चम्या आधेयत्वं निरूपकत्वं वाऽर्थ स्तच्च धात्वर्थे कदेशे संवन्धेऽन्वेति तथा च यवेभ्यो गां वारयति दण्डोल्यन यवनिरूपितसंयोगाभावप्रयोजककार्यस्य गोहत्तेरनुकूलो यो व्यापारस्तदनुकूलकृतिमान् दण्डोत्यन्वयः एवं कूपादन्धं वारयति पुष्पानपाहातपं वारयति क्षेत्रादुन्यां वारयतीत्यादावप्यन्वयो बोध्यः । एवं चाण्डालात्कनकं वारयति दातेत्यत्र चाण्डालसंप्रदानककनकदाननिष्ठोनिष्टसाधनताज्ञानविषयत्वखरूपकायस्य कनकनिष्ठस्य प्रयोजक तथाविधागमस्मरणं दातुः तथाविधविषयत्वं तु कनके चाण्डालखत्वाभावं प्रयोजयति इत्थं च वारयतेन नानार्थता न वा वार्यमाणा गावो थर्व भु बत इत्यादिप्रयोगानामनुपपत्तिः संबन्धस्तु प्रयोज्यो बोध्यः तेन घटसमवेतत्वाभावप्रयोजकस्याग्निसंयोगविशेषसामानाधिकरण्यस्य श्यामरूपनिष्ठस्यानुकूले पाचकव्यापारे सत्यपि घटात् श्यामं रूपं वारयति पाचक इति न प्रयोगः । यत्न तु वारणान्तर्भूतस्य- संबन्धाभावस्यैव वारयत्यादिना विवक्षणं तत्र संबन्धस्याभावे विशेषणतया फलत्वात् तहतः कर्मत्वमिति तत्र परत्वाद द्वितीयैव प्रमाणं यथा कूपं वारयति पान्यः मांस, वारयति मुनिरिति अत्र कूपत्तिसंबन्धाभावप्रयोजककृतिमान् पान्य इत्यादिरन्वयबोधः यत्र चाभावप्रयोजकव्यापारस्यैव वारणान्तर्भतस्य विवक्षणं तत्र संबवस्य वारणानन्तभूतत्वात् तहतो नापादानत्वमिति
Aho! Shrutgyanam