________________
faraifoर्णये ।
च्छिन्नत्वात् । न चैषं पश्य मृगो धावतीत्यादौ दृशिकयायां शाब्दिकमते धावनक्रियाया न्याथमते धावनकर्तृ मृगादेवक्यार्थस्य कर्मतासंसर्गेणान्वयात् तादृशवाक्यार्थोधस्य निरुक्तव्यतिरेकाप्रतियोगित्वेन तद्विषयसंसर्गी भूतकर्मत्वेऽतिव्याप्तिरिति वाच्यम् । संसर्गीभूत कर्मत्वस्य सुबर्थत्वाभावात् । यदि च कर्मत्वादिकं न हितोयार्थः कर्मत्वादिसंसर्गकशाग्दे हितौयादिसमभिव्याहारस्तन्वमिति मतमाश्रीयते तदा पश्य मृगो धावतीत्यव कर्मत्वस्य कारकत्वमिष्टमेव । यदि तु नेष्यते तदा खविषयताकशाब्दे सुप्समभिव्याहारप्रयोज्यत्वं विशेषयामि त्यन्यदेतत् । एवं पदान्तरासमभिव्याहृतत्वं निरर्थकपदासमभिव्याहृतत्वं बोध्यम् । दण्डमनु जातिरित्यादावन्वादिपदस्य निरर्थकताया वच्यमाणत्वात् । सुवर्थत्वावच्छेदकत्वमपि सुब्जन्योपस्थितिप्रकारत्वं बोध्यम् । तथा च निरर्थकपदसमभिव्याहारज्ञानाभावविशिष्टसुबज्ञानजन्योपस्थिति प्रकारीभवद्धर्मावच्छिन्नदर्शित सम्बन्धावच्छिन्नप्रकारताकशाब्दसामान्ये निरुत्तव्यतिरेका प्रतियोगित्वोपपत्तये पदान्तरासमभिव्याहृत सुबर्थत्वमुपात्तम् । एवं च धातुविनाकृतसुबर्थस्य कारकत्ववारणाय धातुसमभिव्याहृतत्वं साकाङ्गत्वार्थक मुपात्तम् । इत्थं च धातुपदव्यतिरेकप्रयुक्तत्र्यतिरेकप्रतियोगित्वमेव निरुताशाब्दसामान्ये विशेष बोध्यम् । एतावतैव षव्यर्थशेषातिप्रसङ्गवारणसम्भवात् । तदयं समुदायार्थः धातुपदव्यतिरेकप्रयुक्त व्यतिरेकप्रतियोगिनिरर्थक पदसमभिव्याहारज्ञानाभावविशिष्टस्वार्थकास व ज्ञानजन्योपस्थितिका
Aho ! Shrutgyanam
-