________________
।
विभक्त्यर्थनिर्णये । प्रयोज्यताविशेषस्य हेतुतासामान्य विलक्षणस्य धार व र्थभय एवान्वयात् न कारकत्वहानिरिति । व्याघाद बिभेतीत्यत्र पञ्चम्यर्थे दर्शितप्रयोज्यत्वे निरूपकतया प्रकृत्यर्थस्यान्वयः तथाविधप्रयोज्यत्वस्यानिष्टसम्भावनाजन्यदुःखे भयेऽन्वयः तथा च व्याघप्रयोज्यं भयं वाक्यार्थः व्याघादेः स्वविशेष्यकानिष्टसाधनाताजानादिमहकृत खसंबन्धज्ञानद्वारा निष्टोत्पत्तिसम्भावनाजन्यदुःखप्रयोजकत्वं सन्निधिखरूपस्य संबन्धस्यातिशयस्वरूपप्रकर्षण ज्ञानं सम्भावनाकोटेरनिष्टोत्पत्ते सत्कटत्वं प्रयोजयति । अथ वा ऽनिष्टोत्पत्ते रवधारणमेव जनयतीत्युभयथा दुःखसुत्कटं प्रयोजयतीति सन्निधिप्रकबैण भयप्रकर्षः इत्थं च द्वितीयाद्धि भयमिति श्रुतिः भये द्वितीय हेतुकत्वपरिसंख्यां बोधयतीतरथा द्वितीयादित्यस्य व्यर्थतापत्तेः परिसंख्या तु प्रकृते द्वितीयाऽन्य हेतुकत्वस्य स्वहेतुकत्वपर्यवसन्नख व्यवच्छेदः भयस्य स्वहेतुकत्वं न सम्भवति स्वमंनिधिज्ञानस्यानिष्टोत्पत्तिसम्भावनां प्रत्य प्रयोजकत्वात् अन्यथा सोऽहमात्मना संबद्ध इत्या कारके सकलदुःखोच्छेदप्रयोजके जाने विद्यमाने भयापत्त: एवं नरकादिभेतीत्यादौ नरकपदस्य कुम्भीपाकादिसंबन्धनानं शरीरतापाद्यनिष्टोत्पत्ति सम्भावयति सम्भावना तु दुःखं जनयतीति नानुपपत्तिः नरकपदस्य सुखासम्भिन्नदुःखपरता न युज्यते तथासति दुःखादव्यथायो वा बिभेतीतिप्रयोगापत्त: भया तव्यमित्यादौ भयपदस्य भयजनके व्याघचौरादो लक्षणेति नानुपपत्तिः यदि च दुःखाद्विभेतीतिप्रयोगोऽभ्युपेयते
Aho! Shrutgyanam