________________
३४२
पञ्चमीविभक्तिविचारः ।
प्रयोजको व्यापारस्तत्कर्तत्वं वाक्यार्थः नन्वेवं "स्वल्पमप्यस्य धर्मस्य वायते महतो भयादि" त्यत्र भयात् बातुं दातुमित्यव चानन्वयापत्तिः भयस्य द्वेषतया वाणस्य तदभावानुकूलव्यापारतया दोषविषयक षाप्रसक्त्या भयहेतुकवाणाप्रसिद्धेः भयस्यानिष्टसम्भावनास्वरूपत्वे तु त्राणस्यानिष्टानुत्पादक व्यापारस्वरूपतया निष्टसम्भावनाहेतुकानिष्टान्तरस्य सम्भवान्नान्वयानुपपत्तिरिति चेन्मैवं तथा हि भयस्य दोषविशेषस्वरूपस्य दुःखविशेषसाधनत्वमनुभवसिद्धमिति भाविभयगोचरभयसम्भवात् भयगोचरभयानुत्पादनस्वरूपत्वाणस्य नाप्रसिद्धिरिति अत एव द्वितीयाहि भयमिति श्रुत्वा स्वस्यापि भयमिति परिसंख्यायते हे षस्य विषयस्वाभाव्येन विषयतया होषं प्रति द्वेषसमवायिभेदस्य हेतुत्वात्वविषय कभयाप्रसिद्धेः भयस्यानिष्टसम्भावनास्वरूपत्वे तु स्वहेतुकानिष्टसम्भावनायाः सम्भवान्न परिसंख्यान सम्भव इति गुरुचरणाः । वस्तुतस्तु अनिष्टोत्पत्तिसम्भावनाजन्यदःखं भयमनिष्टं च दुःखप्रयोजकतावच्छेदकधर्मविशिष्टं मरणादि तबयद्धर्मावच्छिन्नस्य येन संबन्धेन मरणादिसाधनत्वमवगतं स्वस्मिन् तधर्मावच्छिन्नस्य तत्संबन्धज्ञानं मरणाद्यनिष्टोत्पत्तिसम्भावनाया जनकं सा तु दुःखं जनयति तथा मरणादिसाधनतयाऽवगतस्य व्याघ्रस्य स्वस्मिन्सन्निधिसंबन्धज्ञानं मरणाद्युत्पत्ति सम्भावयति स म्भावना तु दु:खं जनयति श्रनिष्टसाधनताज्ञानादिसहकृत संबन्धज्ञान प्रयोज्यत्वखरूपं भयहेतुकत्वमीयोग्यता विशेष लाभार्थमेव सूत्रे भयपदमौदृश
Aho ! Shrutgyanam