________________
३४०
पञ्चमीविभक्तिविचारः। धीनमनिष्टमप्रसिद्ध व्याघाधीनत्वेन मरणमसौ सम्भावयति तत्पुरुषपरो व्याघ्रादयं बिभेतीतिप्रयोगस्तदा पञ्चम्यर्थः प्रयोज्यत्वप्रकारकत्वं धात्वर्थेऽनिष्टसम्भावनायामग्वेति दर्शितस्थले तस्य पुंसो व्याघप्रयोज्यत्त्वप्रकारिकाया अनिष्टसम्भावनायाः सत्त्वात् नानुपपत्तिः एवं च शबनमेण मित्राविभेतीतिप्रयोग उपपद्यते इत्थं च भयार्थकधातुयोगे भय हेतुत्वेन सम्भावितमित्येकः बाणार्थकधातुयोगेऽनिष्टप्रयोजकमपादानमित्यपरः सूत्रार्थः । अनिष्टं च दुःखमेव सर्वत्रानुगतं बोध्यमिति यत्प्रयोज्यं दु.खं न कस्यापि प्रसिद्ध तादृश स्याहि कण्टकायद्यपादानत्वमिष्यते तदा दुःखोपधायकव्यापारविरहस्यानुकूलो व्यापारस्त्राणां तत्र दुःखवतः कर्मत्वं तथाविधव्यापारविरहाधिकरण स्थापादानत्वं तथा च तादृशाहिकण्टकाद्यपादानकं म्वकर्मकवाणमेव प्रसिद्धमिति यत्राचेतनस्य घटादेः कर्मत्वं तन्नाशोपधायकव्यापारविरहानुकूलव्यापारस्वरूपं चाणं तत्र नाशवतः कर्मत्वमिति । एवं तत्सत् वायत इत्यादौ पञ्चम्या आधयत्वमर्थ इति वदन्ति तच्चिन्त्यं नरकाद्विभेतीत्यादौ नरकजन्यानिष्टान्तरम्याभावादनन्वयापत्त: प्रयोज्यत्वप्रकारकत्वस्य पञ्चम्यर्थस्यानिष्टसम्भावनायामन्वयोगमेऽपि प्रयोज्यत्वस्यानिष्टान्वयानुपगमे व्याघ्रप्रयोज्यो एकनाश: हकप्रयोज्यो बालनाशः बालश्च मम पुत्रः सम्भाव्यत इति ज्ञानदशायां बाल पुत्रोऽयं व्याघ्राहिमेतीतिप्रयोगापत्त: अनिष्टान्वये तु दोषस्य स्वयमेव दर्शितत्वात् न च प्र- : योज्यत्वप्रकारत्वस्य स्वनिरूपितानिष्टनिष्ठविशेष्यता
Aho! Shrutgyanam