________________
विभक्त्यर्थनिर्णये ।
३३९
:
म्यप्रसक्तेः पापाज्जगुप्सत इति प्रयोगो न स्यादित्यपि समाहितं क्रियाफलेनापकर्षप्रतिपत्त्या अनभिप्रेतत्वात्संप्रदानत्वाप्रसक्तरिति । पापाहिरमति निवर्तते वेश्यत्र धातोर्निवृत्तिर्यन एवार्थः पञ्चम्याः काम्यत्वाभावार्थ: पापवृत्तेः काम्यत्वाभावस्य प्रयोजिका निवृत्तिर्वाक्यार्थः पापे निवृत्तिविषयत्वं पूर्ववदतोयते करणानन्तरमकरणं तु न विरमत्यादेरर्थस्तथासति रामः परखोगमनादिरतो नित्तो वेति प्रयोगानुपपत्तेः । धर्मात्प्रमाद्यतीत्यत्र प्रमाद्यतेर्निश्चयाभावोऽर्थः पञ्चम्याः प्रवृत्ति1. विषयत्वाभावोऽर्थः धर्मवृत्तेः प्रवृत्तिविषत्वाभावस्य प्रयोजको निश्चयस्त्वत्कर्त्त व्यत्वप्रकारकः निश्चयविशेष्यत्वं धर्मे पूर्ववदर्थात्प्रतीयते तीर्थात्प्रमाद्यतीत्यत्र तौपदस्य तौर्यगमने धातोर्वा गमननिश्चयाभावे लचणा रणं तु न प्रमाद्यर्थे निविशते तथा सत्यनवगतान्धपुत्रो 'दशरथोऽन्धपुत्ररक्षणात्मामाद्यदित्यत्रा पूर्वान्धपुत्ररक्षणविशेष्यकार णाप्रसिद्ध्याऽनन्वयापत्ते रिति । बिभेत्यादियोगे पञ्चमीं ज्ञापयति । "भौवार्थानां भयहेतुरि "तिसूत्रं भयार्थानां त्राणार्थानां च धातूनां योगे भयहेतुर्यस्तत्कारकमपादानसंज्ञं स्यादित्यर्थकं व्याघ्रादिभेति वायते बेत्यादौ पञ्चम्या भयहेतुत्वमर्थो भयेऽन्वेति । गौडास्तु परतोऽनिष्टसम्भावनास्वरूपं भयं तदर्थका विभेत्यादयः अनिष्टानुत्पच्यनुकूलव्यापारस्वरूपं वाणं तदर्थकाः त्रायत्यादयः एतेषां धातूनां योगेऽनिष्टप्रयोजकमपादानसंज्ञ भवतीति स्वार्थः इत्थं च पञ्चभ्याः प्रयोजकत्वमर्थो धात्वर्थघटकेऽनिष्टेऽन्वेति यदि च यस्य पुंसो व्याघ्रा
Aho ! Shrutgyanam