________________
३३२
पञ्चमीविभक्तिविचारः । न्दनविशेषणतयोपस्थितस्यापि विभागस्य प्रधानव्यापार सानाविशेषणत्वात् दुहिजन्या विभागोपस्थितिस्तन्व मित्थं च त्यजेः संयोगावाचकतया तदर्थ न पञ्चम्यर्थविभागस्यान्वय इति प्रधानव्यापार साक्षाविशेषणतैव विभागस्य त्यजिनोपस्थापनान्न तत्र पञ्चम्यानुयोगित्वस्यान्वय इति तरोस्त्यजतौति न प्रयोगः प्रधानव्यापार साक्षाविशेषणीभूतविभागवाचकधातुजन्योपस्थितिः पञ्चम्यानुयोगित्वान्वये तन्त्र मिति तु फलितार्थ: अतस्तरोः त्यज्यत इति कर्माख्यात प्रयोगोऽपि निरस्तः कमाख्याते विभागस्य व्यापाराविशेषणतया भानेऽपि त्यजैविशेषणीभूतविभागवाचकत्वात् प्राचां मते धातोः फलावच्छिन्नव्यापारार्थकतया नव्यानां फलव्यापारो. भयवाचकतया विभागस्य गमनादिव्यावर्तकत्वरूपं वि- :शेषणत्वं त्यज्यर्थव्यापारे सर्वथैवोपयमिति । नन्वेवं विभागव्यापारोभयवाचकस्यापसरत्यायोगे सदसोऽपसरतीतिप्रयोगो न स्यात् धातोविशेषणीभूतविभागवाचकतया तदर्थे विभागे पञ्चम्यानुयोगित्वान्वयाप्रसतरिति चेन्न । धातोरपसरत्यादेविभागावाचकत्वात् किं तु अपपूर्वकस्य सरत्यादेः पूर्वदेशान्यदेशसं योगफलकस्पन्दवाचकत्वमिति धात्वर्थान्तर्भूत कर्मकत्वादकर्मकत्वमिति तदर्थ स्पन्दे पञ्चम्यर्थविभागान्वयसम्भवात् भवति सदसोऽपसरतोत्यादिकः प्रयोगः संयोगफलकधातुयोगे पञ्चमौ यथा वृक्षात्पतति गच्छति वा पत्रमित्यादौ पतेरधोदिगवच्छिन्नसंयोगफलको गमेस्तु संयोगफलको व्यापारोऽर्थः उपत्यकाव्यो गिरिमधिरोहत्या
Aho! Shrutgyanam