________________
विभक्त्यर्थनिर्णये ।
३३१ श्यकत्वादिति त्यज्यर्थे पञ्चम्यर्थस्य नान्वय इति वदन्ति तच्चित्यं त्यजेः संयोगस्पन्दोभयवाचकतान्नमदशायां तादृशशाब्दप्रसक्त्या तादृशप्रयोगापत्त: न च सडेतनाने नमान्यत्वं विशेषणमतो न तादृशशाब्दप्रसक्तिरिति वाच्यं तथापि यत्न पचिनाऽवतारण व्यापारोऽभिहितस्तत्व चुल्याः पचतौति प्रयोगापत्तेः किं च विभागार्थकविभजतियोगे वृक्षादिभजत इत्यवेव तरोस्त्यजतौल्यवधिस्वार्थकपञ्चमीप्रयोगापत्तिरिति । शाब्दिकास्तु त्यजतिफल विभागबत्तया वृक्षस्य कर्मत्वोत्परया कर्मसंजयाऽपादानसंताबाधात् तरोत्यजतोति न प्रयोग दूत्याहुस्तदपि न सुन्दरं गोभ्यः पयांसि दोग्धोत्यबेवावधित्वविवक्षया तथाप्रयोगापत्त: न च विभागः स्पन्दनं व्यापार एतत्त्रितयार्थकस्यापि दुहविभागाविवक्षायामपादानोर्थकपञ्चम्यन्तस्य गोव्य इत्यस्य प्रयोग इति वाच्यं तथासति त्यजेरपि विभागाविवक्षायां स्पन्दमात्र प्रतिपादने तरोरत्यजतीतिप्रयोगापत्तेः । तस्मादिदमत्र तत्त्वम् । विभागानुयोगित्वखरूपमवधित्वं तव विभागस्य धातुना अलाभे पञ्चम्या विभागोऽर्थः पञ्चम्यर्थविभागान्वये संयोगव्यापारोभयवाचकधातुजन्या व्यापारोपस्थितिस्तन्वं विभागस्य धातुलभ्यत्वे तु पञ्चम्या अनुयोगित्वमर्थः पञ्चम्यर्थानुयोगित्वान्वये तु प्रधानीभूतधात्वर्थव्यापारे साक्षाविशेषणताऽनापन्न विभागोपस्थितिर्धातुजन्या तन्वं वृक्षाविभजत इत्यत्व विभागस्य प्रधानन्यापारे साक्षाविशेषणत्वानापन्तस्यैव धातुजन्योपस्थिति: गोभ्यः पयांसि दोग्धोत्यत्र स्म
Aho! Shrutgyanam