________________
पञ्चमीविभक्तिविचारः। रवसे येतीयमभिनवा रीतिरिहानुसंधया । नन्वेवमविवृक्षापते स्पन्दते वेत्यादिः प्रयोगो दर एव पञ्चम्यर्थ विभागस्य धात्वर्थे कम्पादौ जनकतया अन्वयसम्भवात् । न च फलव्यापारीभयवाचकधातुजन्योपस्थितिः पञ्च म्यर्थविभागान्वयबोधे हेतुरिति वैपतिस्पन्दत्योापारमाववाचकतया फलावाचकत्वात्तज्जन्योपस्थितेविभागान्वयबोधाहेतुत्वान्न दर्शितप्रयोग इति वा. च्यं तथा सत्यासनाचलित इति प्रयोगानुपपत्ते : चलतेरपि फलावाचकत्वान्न च चलते: संनिहित देशसंयोगफलक व्यापारवाचित्वात् फलवाचकत्वमेव तथा त्वेऽपि धात्वर्थान्तर्भतकर्मकत्वान्न सकर्मकत्वं फलवाचकस्यापि धातोर्योगे पञ्चमीप्रयोगो भवत्येव यथा पल्यात् पौठे समुपविशतीत्यादौ तथाऽऽसनाच्चलित इत्यत्रापि पञ्चमीप्रयोगो निष्प्रत्यूह एवेति वाच्यम् । तथापि तरोस्त्यजतीति प्रयोगापत्तेस्त्यजेः फलव्यापारोभयवाचकतया तज्जन्योपस्थितेः पञ्चम्यर्थविभागान्वयबोधहेतुत्वे बाधक भावादिति चेत् अत्र केचित् फलव्यापारोभयविषयकज्ञानोद्देश्यताकसङ्केतीयज्ञाननिष्ठविषयतायां विभागविषयकत्वानवच्छिन्न त्वस्य फल विषयकत्वावच्छिन्नत्वव्यापारविषयकत्वावच्छिन्नत्वयोश्च निवेशस्तथा सति तादृश ज्ञाननिष्ठतादृशविषयताकसङ्केतत्तानजन्यसंस्कारसहकृतधातुजन्योपस्थितिः पञ्चम्यर्थविभागान्वथबोधे हेतुरिति त्यजिजन्योपस्थितिर्न तथा त्यजे: सङ्कतीयज्ञाननिष्ठविषयताया विभागविषयकत्वावच्छिन्नत्वात् सङ्केतस्य विभागस्पन्दोभयविषयकज्ञानोदे
Aho! Shrutgyanam