________________
विभक्त्यर्थनिर्णये ।
३२७ भावप्रतियोगितावच्छेदकस्य क्लप्तस्य तथात्वौचित्यात् जन्यत्वस्या तिरिक्तत्वपक्षेऽपि प्रयोजकत्वस्य साक्षात्संबन्धत्वाभावात् प्रयोजकतया प्रयोज्यतया बाऽन्वये परम्परायास्तथात्वावश्यकत्वमिति न च फलस्य व्यापार तस्य प्रयत्ने जनकतयाऽन्वयो न तु प्रयोजकतयेति वाच्यम् । अधिश्रयणाद्यवतारणान्तानां व्यापाराणां विक्लित्यादिजनकत्वविरहात् मध्यमव्यापाराणां जनकत्वेऽपि प्रथमव्यापारेषु प्रयोजकतयैव विक्लित्यादेरन्वयसम्भवात् पचतीत्यत्रापि व्यापारस्य तथैवान्वयात् न चात्र साध्यित्वाख्यविषयित्वसंबन्धेनान्वय इति वाच्यं प्रथमव्यापारस्य चरमव्यापारानुकूलप्रयत्ने तथाऽन्वयासम्भवात् । एवं चैत्रेण पच्यत इत्यत्र तृतीयाऽर्थप्रयत्नस्यापि न साध्यत्वाख्यविषयत्वेन व्यापारोन्वयः प्रथमव्यापारसाध्यकप्रयत्नस्य मध्यमचरमव्यापारेषु साध्यत्वविरहादिति प्रयोज्यतयैवान्वय इति चैत्रेण न पच्यत इत्यत्र प्रयोज्यतासंबन्धावच्छिन्नप्रतियोगिताकः प्रयत्नाभावो व्यापार प्रतीयत इति परम्पराया: संसर्गत्वं प्रतियोगितावच्छेदकर्मसर्गत्वं च सर्वसंमतमिति । यदि च भेदोऽपि पत्यादिधातोरेवार्थ: सर्वत्र पञ्चमौघटितशाब्दसामाग्रयां भेदोपस्थितेनिवेशनापेक्षया पत्यादिधातुघटित कतिपयशब्दसामग्रयां तन्निवेशनस्यैवौचित्यात् न च पत्यादिधात्वथस्य भेदस्य धात्वर्थे विशेषणतया अन्वयित्वात् फलतया तदन्वयिनोऽपादानस्य कर्मत्वाद् द्वितीयाऽऽपत्तिरिति वाच्यम् । अपायवतो ध्रुवस्य निरवकाशयाऽपादानसंचया कमसंजाबोधात्संयोगभेदोभयफलवत एव पत्यादिकर्मत्वा
Aho ! Shrutgyanam