________________
३२८
पञ्चमीविभक्तिविचारः। दित्यस्य हितीयाविवरणे दर्शितत्वाच्च धात्वर्षभेदेऽपादानस्यान्वये पञ्चम्यर्थस्य क्रियाजन्यविभागादिरूपापायस्यान्वयसामग्री प्रयोजिकाऽतः केवलं भेदान्वयापत्त्या मेरोरयमायातीति न प्रयोग इति विभाव्यते तदा भेदो न पत्यादिधातोर्न वा पञ्चम्या अर्थः किं तु विभागादिरूपे पञ्चम्यर्थे व्यापारवद् भेदावच्छिन्नसमवायावच्छिन्नाधयतया प्रकत्यर्थस्यान्वयस्तत एव पत्त्रात्पवं पततोति न प्रयोगः वृक्षात्पवं पतति न तु पत्रादित्यपि दर्शिताधेयत्वसंबन्वावच्छिन्नप्रतियोगिताकः पत्नाभावो विभागे प्रतीयत इति निषेधप्रतीत्युपपत्तिः दर्शिताधेयत्वस्य वृत्त्यनियामकत्वेऽपि प्रतियोगितावच्छेदकसंबन्धत्वं सर्वसंमतमेव अन्यथा गुणान्न पततात्यत्र निषेधप्रतीतेः कथमप्यनुपपत्तः दर्शिताधेयत्वसंबन्धावच्छिन्नप्रतियोगिताको गु. णाभावो विभागे प्रतीयत इति निषेधप्रतीतिरित्यमेव सम्भवतीति समवायादभावाहा न पततीत्यत्र दर्शिताधेयत्वं समवायादेव्यधिकरणः संबन्धस्तत्संबन्धावच्छिन्नप्रतियोगिताकः समवायादेरभावो विभागे प्रतीयत इति निषेधप्रतीत्युपपत्ति: । ननु यत: पतनादिकं प्रसिद्ध तस्यैव निषेधो नञा प्रत्याय्यते अत एव नविनिर्मुक्तशब्दप्रयोगे यहैशिष्टं यत्र प्रतीयते नञि समभिव्याहृते तन्निषेधस्तत्व प्रतीयत इति व्युत्पत्ति: । इत्थं गुणाद्यपादानकपतनाप्रसिद्ध्या गुणात्समवायादभावाहा पततौतिप्रयोगविरहात् गुणात्समवायादभावाहा न पततीतिवाक्यमयोग्यमेव तत्कथं दर्शिताधेयत्वसंबन्धावच्छिन्नप्रतियोगिताको गुणादेरभावो विभागे प्रतीयते येन त्य
Aho! Shrutgyanam