________________
३२६
पञ्चमीविभक्तिविचारः ।
पेयते यदव परम्परासंबन्धस्य न संसर्गत्वं न वा प्रतियोगितावच्छेदकसंसर्गत्वमिति बाधकमुक्त तदप्यकिंचिकरं सुरभि जलं लोहितः स्फटिक इत्यत्र समवायिसंयोगस्य संसर्गतायाः कर्पूरगन्धो न तडागजले किंतु कुम्भोदके मञ्जिष्ठा रागो न मैत्रवस्त्रे किं तु चैलपटे इत्यत्र प्रतियोगितावच्छेदकतायाः सर्वानुभवसिद्धत्वात्प्रकृतेऽपि विभागभेदयोः पञ्चम्यर्थयोः जनकत्वप्रतियोगितावच्छेदकत्वाभ्यां परम्पराभ्यां पतनादिक्रियायामन्वयात् न पत्रादित्यादौ परम्परायाः प्रतियोगितावच्छेदकसंसर्गतया निषेधप्रतोत्युपपत्तिः नच्विनिर्मुक्तवाक्ये येन संबन्धेन यस्य यत्रान्वयः तत्र न समभिव्याहारे तत्संबन्धावच्छिन्न प्रतियोगिता कस्तस्याभावस्तवान्वेतीतिव्युत्पत्त ेः न च सुरभि जलमित्यादिप्रत्यचादिबुद्दौ परस्परायाः संसर्गत्वेऽपि शाब्दे क्वापि संसर्गत्वाभावात् प्रकृतेऽपि न संसर्गत्वं न वा प्रतियोगितावच्छेदकसंसर्गत्वमिति वाच्यं पचतीत्यादौ विक्तित्यादिफलकस्य जनकतया प्रयोजकतया वा फूत्कारादिव्यापारे तस्य प्रयोजकतया तिङर्थे प्रयत्नऽन्वयदर्शनात् एवं चैत्रेण न पच्यत इत्यादी तृतीयार्थप्रयत्नस्य प्रयोज्यतया संबन्धेनावच्छिन्नप्रतियोगिताकोऽभावः पाकेऽन्वेतीति सर्वानुभवान्न हि जनकता जन्यता प्रयोजकता प्रयोज्यता वा साक्षात्संबन्ध: न च जनकत्वसतिरिक्तपदार्थस्तस्य साक्षात्संबन्धत्वमिति वाच्यं जनकत्वस्य तथात्वे तु जन्यत्वस्यापि तथात्वावश्यकत्वात् प्रति ज्ञनकं जन्यं च जन्यत्व जनकत्व - योरतिरिक्तयोरनन्तकल्पनाऽपेक्षया कार्याधिकरणष्टत्त्य
Aho! Shrutgyanam