________________
३२५
विभक्त्यर्थनिर्णये । पिताव्यवहितपूर्वक्षणावच्छिन्नत्वाधिकरणात्तिविशेष्यताइयनिरूपितविद्यमानत्वादिनिष्ठ कविषयताको व्यभिचारग्रह एव विरोधी न तु धमान्तराव्यवहितपूर्वक्षणावच्छेदेन धूमान्तराधिकरण विद्यमानं वन्यभावमबगाहमान इत्यन्यत्र विस्तरोऽनुसन्धेय इति पदवाक्यरत्नाकरे प्राहु: । वस्तुतस्तु विभागो भेदश्च पञ्चम्यर्थः विभागस्य जनकत्वेन भेदस्य स्वसमानाधिकरणविभागजनकत्वविशिष्टेन प्रतियोगिताबच्छेदकत्वेन संबन्धेन पतनादिक्रियायामन्वयः तरोः पर्व पतति न पत्रादित्यत्र पत्रवृत्तिभेदस्य दर्शितेन विशिष्ट प्रतियोगितावच्छेदकत्वेन संबन्धनावच्छिन्नप्रतियोगिताकोऽभावो नञा पतने बोध्यते ऽतो भेदस्य पत्रान्तरनिष्ठस्य प्रतियोगितावच्छेदकत्वसंबन्धेन पतने सत्त्वेऽपि न निषेधप्रतौत्यनुपपत्तिः दर्शितविशिष्टप्रतियोगितावच्छेदकत्वसंबन्धस्य प्रतियोगितावच्छेदकताया युक्तिसहत्वात् यो हि वृत्त्यनियामकः संबन्ध: प्रतियोगिविशिष्ट बुद्धिं नाजयति स न प्रतियोगितावच्छेदकः यो हि विशिष्टवुद्धिमर्जयति म प्रतियोगितावच्छेदक एव तदैशिष्टंध प्रति तत्संबन्धावच्छिन्न प्रतियोगिताकाभावस्य विरोधित्वादित्यादियुक्तर्दितीयाविवरणे दर्शितत्वात् यदि च वृत्त्यनियामक: संबन्धो न प्रतियोगितावच्छेदक इति मन्त्र पाठमण्यादिवत् प्रतियोगितावच्छेदकत्वबुद्धि विरुणदि तदा भेदस्य दर्शितविशिष्ट प्रतियोगितावच्छेदकत्वविशिष्टा विशेषणव संबन्धः पतनादिक्रियायामन्वय घटको न पत्रादित्यत्र नअर्थाभीवस्य प्रतियोगितावच्छेदकश्चाभ्य
Aho! Shrutgyanam