________________
રૂર
पञ्चमीविभक्तिविचारः। इयमेकमेव पचत्वावच्छिन्नयाऽवच्छेदकतया निरूप्यतइति अमुमेवाभावं पत्रपतनकर्तपत्रे विभागजनकत्वतनिष्ठभेदप्रतियोगितावच्छेदकत्वं पतने नास्तौतिवाक्येन प्रामाणिका व्यवहरन्ति । एतादृशाभावबोधः पत्रत्वा
द्यवच्छिन्नैकप्रकारतानिरूपितविभागभेदोभयविशेष्यताक: सम्भवति प्रकारतादयनिरूपित कविशेष्यताकस्य संशयादेरिब विशेष्यताद्वयनिरूपितैकप्रकारताकबोधस्यान्युपेयत्वात् अत एव संशयाव्यवहितोत्तरं प्रत्यक्षमिति वाक्ये न मानान्तरेण वा यस्मात्संशयादव्यवहितं तस्मादुत्तरं प्रत्यक्षमिति प्रत्याय्यते संशयत्वावच्छिन्नयैकप्रकारतयाऽव्यवधानोत्तरत्वविषयतयोस्ताभ्यां च प्रत्यक्षविशेष्यताया निरूपणेन फलत एकतमसंशयाव्यवहितपूर्वस्य चिरातीतसंशयान्तरोत्तरप्रत्यक्षस्यानवगाहनात् । एवमेव धूमत्वादिसामान्यधर्ममन्तर्भाव्य बनद्यादेः कारणत्वमपि सुग्रहं तत्तङ्कमाव्यवहितपूर्वक्षणावच्छेदेन तत्तई माधिकरणे विद्यमानस्याभावस्य प्रतियोगितासामान्यामावो वह्नौ धमकारणता स चैक एवाभाव: न तु धूमव्यक्तिघटित कूटात्मक: युगसहस्रणापि दुहत्वात्सम्भवति चैकयैव धूमत्वावच्छिन्नावच्छेदकतया निरूपितमव्यवहितपूर्वक्षणावच्छिन्नत्वे अधिकरणत्वे चावच्छेदकताइयं ताभ्यां निरूपितं विद्यमानत्वे तेन चाभावेऽवच्छेदकत्वमेकैकमेव परस्परनिरूपितमभावनिष्ठावच्छेदकत्वेन निरूपिता प्रतियोगितात्वावच्छिन्ना प्रतियोगितेति तन्निरूपकोऽनुगतः सामान्याभावः तदुद्धिं प्रति धूमत्वावच्छिन्नेकप्रकारतानिरू
Aho! Shrutgyanam