________________
ફરર
पञ्चमीविभक्तिविचारः। मशक्यत्वात् न च खटत्तिविभागजनकत्ववत्तिभेदप्रतियोगितावच्छेदकत्वोभयसंसर्गावच्छिन्नप्रतियोगितोकः पत्रसामान्यभाव एव पतने ना बोध्यते पञ्चमौ तु प्रतियोगितावच्छेदकसंसर्गानुवादिकत्यपि पूर्वोक्तप्रायं युज्यत इति वाच्यं वृत्त्यनियामकसंबन्धस्य प्रतियोगितावच्छेदकतयाऽनभ्युपगमात् अभ्युपगमे तु विभागप्रतियोगित्वविशिष्ठजनकत्वस्वरूप साक्षात्संसर्गावच्छिन्नप्रतियोगिताकस्य पत्रसामान्यभावस्य पत्वापादानकपतनेऽपि सत्वेन पत्रात्पतपि पतक पत्नान्नायं पततौतिप्रयोगप्रसङ्गात् न च परम्परामुद्रया तादृशसंसर्गावच्छिन्नप्रतियोगिताक एव पत्रसामान्याभावः पञ्चम्यन्तपत्नपदपत्यादिधातुसमभित्र्याहृतना बोध्यते परम्परा हि विभागनिरूपकत्वजनकत्वानि भेदानुयोगित्वप्रतियोगित्वावच्छेदकत्वानि च परस्परविशृङ्खलितान्येव संसर्गस्तत्र प्रथमपरम्परास्थले पत्रत्वावच्छिन्नप्रतियोगितानिहपिता विभागसंसर्गता तया निरूपितो निरूपकत्वे तया निरूपिता जनकत्वे च संसर्गता तन्निरूपितानुयोगिता नज भावे भासते द्वितीय परम्परायामप्यनया रौत्या संसर्गता बोध्या विभागप्रतियोगित्वविशिष्टजनकताखरूपसाक्षात्संसर्गे तु विशिष्टधर्मावच्छिन्नजनकतावृत्तिरेकैव संसर्गता प्रतियोगित्वानुयोगित्वाभ्यां निरूप्यत इति परम्पराविशिष्टसंसर्गयोः संसर्गताविवेक इति न दर्शितप्रयोगप्रसङ्ग इति वाच्यं परम्परासंसर्गतासु प्रथमा प्रतियोगितया ,चरमा पुनरनयोगितया प्रथमैवानयोगितया चरमैव प्रतियोगितया निरूप्यत इत्यत्र
Aho ! Shrutgyanam