________________
विभक्त्यर्थनिर्णये ।
३२१ वमिदं बालोपलालनं न तु पञ्चम्यर्थविवेचनं क्रियादेरन्यलभ्यत्वात्तत्तक्रियादेरननुगमेन पञ्चम्यर्थप्रवेशानुपपत्तेः तस्माऽदो विभागश्च पञ्चम्यर्थस्तत्र प्रकृत्यर्थस्याधेयतया अन्वयः विमागस्य जनकतया भेदस्य प्रतियोगितावच्छेदकतया पतनादिक्रियायामन्वयः । तरोः पवं पततीत्यत्र तरुसमवेतविभागजनकस्य तत्तिभेदप्रतियोगितावच्छेदकस्य पतनस्याश्रयः पत्रमित्यन्वयबोधः । शाब्दिकैकदेशिनस्तु विभाग एव पञ्चम्यर्थो न तु भेदः न चैवं पत्त्रात्यवं पततीतिप्रयोगप्रसङ्ग इति वाच्यं परया कतसंजयाऽपादानसंज्ञाबाधात् पञ्चम्यनुपपत्तेः संत्ताया एव विभक्तिनिष्पादकत्वादिति वदन्ति | तन्न एवं मति वृक्षात्पणं पतति न पत्त्रादित्यत्र निषेधप्रतीत्यनुपपत्तेः पतने पत्रसमवेतविभागजनकत्वाभावस्य नञा बोधनासम्भवादयोग्यत्वात् गुणान्न पततौल्यादाविब प्रकृत्यर्थसमवेतत्वाभावस्य पञ्चम्यर्थं विमागे बोधनस्याप्यसम्भवात् विभागस्य पत्रसमवेततया अयोग्यत्वात् भेदस्य पञ्चम्यर्थतावादे तु पननिष्ठभेद प्रतियोगितावच्छेदकत्वाभावस्य पतने नञा बोधनसम्भवान्निषेधप्रतीत्युपपत्तिः नन्वेवमपि पत्रसमवेतविभागजनकत्वस्य पत्रान्तरनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य च यो: पतने सत्त्वान्निषेधप्रतीत्यनुपपत्तिः पत्रात्यवं पततीतिप्रयोगप्रसङ्गश्च न च तत्तत्पननिष्ठभेदप्रतियोगितावच्छेदकत्वस्य समुदायो नञा निषिध्यत इति निषेधप्रतीत्युपपत्तिस्तथाविधसमुदाय एव पञ्चम्याः साधुत्वान्न दर्शितप्रयोगश्चेत्यादिपूर्वोक्तप्रायं सांप्रतमिति वाच्यं युगसहस्रेणापि ग्रहौतु
Aho! Shrutgyanam