________________
३२०
पञ्चमीविभक्तिविचारः। अपाये यदुदासीनं चलं वा यदि वा चिलं । ध्रुवमेवातदावेशात्तदपादानमुच्यते॥ .. पततो ध्रुव एवाश्वो यस्मादश्वात्यतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ॥ उभावप्यध्रुवो मेषौ यद्यप्युभयकर्मजे । विभागे प्रविभक्त तु क्रिये तत्र विवक्षिते ॥ मेषान्तरक्रियापक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियाऽपेक्षं कट त्वं च पृथक् पृथक् ॥ इति तत्र अपाये विभागे सतौति शेषः । उदासीनं कर्म कादिभिन्न कारकं चलं धावदश्वादि अवलं तरूपर्वताहि अतदावेशाक्रियायन्यत्वात् । ननु परस्परस्मान्मेषावपसरत इत्यादावुभयकर्मजन्यविभागवत्तया विभागजनकक्रियावदन्यत्वं न कस्यापि मेषस्य तत्कथं मेषयोरपादानत्वमित्याशङ्कते । उभावपीत्यादि । नन्वपादानसंज्ञायां क्रिया क्रियात्वेन विभागजनकत्वेन वा न प्रवेशनीया किं तु ताटूप्येणेति नानुपपत्तिरिति समाधत्ते । प्रविभक्त वित्यादि । तुस्तथापिपर्यायः प्रविभक्त भिन्ने क्रिये विवक्षिते तद्रूपेणेतिशेषः । ननु कट संज्ञाsवरुदयोमषयोः कथमपादानसंज्ञा "आकडारादेका संजे"ति संज्ञाप्रतिनियमनादित्याशय भिन्नभिन्न क्रियानिरूपितसंज्ञाहयसमावेशो न विरुद्ध इति समाधत्ते । मेषान्तरीत्यादि। अवधित्वं विभागजनकतक्रियावदन्यत्वे सति तक्रियाजन्यविभागवत्वं यद्यतिरिक्त शक्तिस्वरूपमवधित्वं तदाऽप्येतदभिव्यङ्ग्य मेव तत् कट त्वं क्रियाशयत्वमत्रापि क्रिया तद्रूपेणैव निविशत इति भावः स
Aho! Shrutgyanam