________________
विभक्त्यर्थनिर्णये।
अथ पञ्चमी। सिम्यांभ्यस इति त्वयः प्रत्ययास्तत्र सरसः समुपैति सुमनसः समधीत इत्यादौ श्रूयमाणत्वादसस्तत्वेन भ्यामित्यस्य भ्यांत्वेन भ्यसो व्यस्त्वेन वाचकत्वं डकार दूकारश्चानुबन्धः क चिदप्यश्रयमाणत्वान्न तौ वाचकताकुक्षिप्रविष्टाविति अनुशासनसिद्धाः पञ्चम्या अर्थाः । अनुशासनं च "अपादाने पञ्चमौ” इति । तत्वापादानमैपादानत्वं वार्थ इति वक्ष्यते । अत्राप्यनमिहिते - त्यधिकारस्तेन चौरभौत इत्यत्र समासेन व्याघ्र इति बिभेतीत्यत्र निपातनापादानाभिधाने न पञ्चमी । अपादान पदसङ्केतग्राहकं सूचं "ध्रुवमपायेऽ पादानम्" इति । ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तल्कारकमपादानसंखं भवतीत्यर्थकम् । अपायो विश्लेषः संबधापगम इति यावत् । विश्लेषस्य साध्यत्वं क्रियाजन्यत्वं तेन स्वतःसिद्धविश्लेषवतो ध्रुवस्य नापादानत्वमतो मेरोरयमायातीति न प्रयोगः तरीः पचं पततीत्यत्र विश्लेषस्य संयोगनाशस्य प्रयोजको विभागोपायस्तद्वत्त्वमपायित्वं क्रियानधिकरणत्वं ध्रुवत्वं तत्र विभागो भेदश्च पञ्चम्यर्थः लाघवाक्रियावदन्यो विभागबान्न पच्चम्यर्थो गौरवान् विभागस्य जनकतया भेदस्य प्रतियोगितावच्छेदकतया क्रियायामन्वयः वृक्षस्य पतनक्रियावदन्यत्वादिभागवत्वाच्चापादानत्वं क्रियावदन्यत्वं तु तक्रियावदन्यत्वं बौध्यं तेन कुड्यात्मततोऽश्वात्मततोत्यत्राश्वस्य पतनक्रियावत्वेऽपि नरक कपतनक्रियापादानत्वस्य न हानिस्तदुक्तं हरिणा ।
Aho! Shrutgyanam