________________
चतुर्थीविभक्तिविचारः। स्त्यांगो न खधाकरणक इति न तत्र खधाप्रयोग इति संप्रदायः । वस्तुतस्तु विहितस्त्यागः स्वधाशब्दार्थ: चतुयर्थः पूर्वोक्त एव संबन्धस्तस्य स्वत्वनाश त्यागस्थान्ने पूववदन्त्रयः पुष्पं शिवाय नमः हविरग्नये स्वाहेत्यवेवान्वयबोधः नमःस्वाहाम्वधाशब्दानां विहितस्त्याग एवार्थः त्यागस्तु प्रयोक्तरेव तत्र प्रजादौ नमः पदस्स होमें स्वाहा पदस्य श्राद्धे स्वधापदस्य प्रयोगे विशेषविधानात् शूद्रस्य न स्वाहास्वधाप्रयोगो निषेधात् प्रत्यवायसहस्य स्वाहास्वधोप्रयोगेऽपि स त्यागी न तथाविहित इति न स्वाहादिशब्दार्थ इति न शाब्दबोधः अत एव शूद्रेण क्रियमाणे श्राद्धादौ नमःपदप्रयोगः यत्र स्वधाप्रयोगनिषेधस्तत्व चैवर्णि केनापि क्रियमाणे रद्धिश्राडादौ नमःस्वाहापदयोरेकतरप्रयोगः विशेषविधानादेवानाग्निकतुकेऽग्नौकरणे स्वाहापदप्रयोगः । अलं जगते इत्यत्रालमितिपर्याप्त्यर्थकानां ग्रहणं पर्याप्तिरपि स्वाम्यं नि. ग्राहकत्वं च अत एवालमितिपर्याप्त्यर्थग्रहणमिति काशिका | चतुर्थ्या निरूपितत्वमर्थः पर्याप्तावन्वेति तथा च जगन्निरूपितस्वाम्यवान् जगन्निरूपितनिग्राहकत्ववान् वैत्यन्वयबोध: जगते प्रभुभंगवानित्यत्व प्रभुत्वमपि स्वाम्यं निग्राहकत्वं च पूर्ववदन्वय: जगते समर्थः शक्तो वा भगवानित्यत्र सामयं शक्तत्वं च निग्राहकत्वमेव पूर्ववदन्वयः मल्लाय प्रभुः समर्थः शक्ती वा मल्ल इत्यत्र प्रभुत्वादिकं निग्राहकत्वमेव पूर्ववदन्वयः घटायालं समर्थ: शक्तो वा कुलाल इत्यत्र स्वरूपयोग्यत्वमुपहितत्वं वा सामादिकं पूर्ववदन्वयः । प्रवादिशब्दयोगे षष्यपि
Aho! Shrutgyanam