________________
विभक्त्यर्थनिर्णये । छाऽपि व्यापारवत्प्रयोक्त रेव बोध्या स्वस्ति प्रजाभ्य इत्यत्व संबन्धश्चतुर्थ्य र्थः स चाधेयत्वमेव स्वस्तिपदार्थः कुशलं तच्चानिष्टसाधनाभावस्तथा च प्रजात्तिरनिष्टसाधनाभाव इत्यन्वयबोधश्चतुर्थी चाशिघ्यायुष्यमद्रभद्रीतिसूत्रे कुशलग्रहगोन तत्पर्यायस्य स्वस्ते हो नाशंसायां चतुर्थीसम्भवेऽप्याशंसाविरहेऽपि चतुर्थीविधानार्थ प्रकृते नमास्वस्तीतिसूत्रे स्वस्तिग्रहणम् अग्नये कृत्तिकाभ्यो वा हविः स्वाहेत्यत्र वहिसंयोगजनकप्रक्षेपोत्तराङ्गकविहितत्यागः स्वाहापदार्थः विहितत्वविशेषणात् वह्निप्रक्षेपफलकयादृच्छिकत्यागो न स्वाहापदार्थ: त्यागस्तु स्त्रत्वनाशप्रकारिकेच्छैव चतुर्थ्यर्थः संबन्धः प्रीतीच्छाप्रयोज्यत्वं तस्य स्वत्वनाशेऽन्वयः प्रीतीच्छायां तु प्रीतिप्रकारतानिरूपितविशेष्यताकत्वेन प्रकृत्यर्थस्यान्वयः त्यागस्य स्वत्वनाशप्रकारतानिरूपितविशेष्यतया हविष्यस्वयः पुष्पं शिवाय नमः इत्यवान्वयबोधः । अनग्निकर्तकब्राहाणपाण्याद्यधिकरणकप्रक्षेपोत्तराङ्गके त्यागे अग्नीकरणहोमे स्वोहाप्रयोगो गौण इति । दूदमन्न पितृभ्यः स्वधेत्यत्र पित्रुद्दे शयकत्यागः स्वधापदार्थः पिटत्वं तु चैवर्णिकसपिण्डितत्वं पारशवस्य पिता न चैवर्णिकेन सपिण्डितः किन्तु दैवतमात्रमिति न तव स्वधाशब्दप्रयोगः चैवर्णिकेन सपिण्डितस्य पारशवेन क्रियमाणे पुनरोब्दिकादौ न स्वधाशब्दप्रयोगः तस्य स्वधाशब्दप्रयोगनिषेधात् प्रत्यवायसहेन पोरशवेन प्रयुक्तः स्वधाशन्दः शाब्दबुद्धि जनयत्येव बाधकाभावात् भवतु वा स्वधाकरणकत्यागः स्वधाशब्दार्थः शुद्रकट क
Aho! Shrutgyanam.