________________
चतुर्थीविभक्तिविचारः । भवत्यमावास्थायामित्यादौ तद्धितेनाणप्रत्ययेन प्रोतीच्छाप्रयोज्यस्य मन्त्रकरण कत्यागप्रकारस्य स्वत्वनाशस्थाश्रयो ऽभिधीयते तत्र प्रागतविशेष्यितया प्रौतौच्छायामिन्द्रपदार्थस्येन्द्रस्यान्वयस्तथा च विशेष्यितया तादुशप्रौतीच्छायामन्वये तादृशप्रौतीच्छाया अपि प्रागुतविशेष्यतयेन्द्रन्वय इतौन्द्रस्य देवतात्वं वाक्यार्थतया प्रतीयते एवं यथा श्रुतिवीहारा इत्यनेन त्यागवाक्यस्य श्रुतपदघटितत्वनियमनेन शक्राय स्वाहेत्यादिको न प्रयोगः । यदग्नये च प्रजापतये च जुहोतोत्यादौ चतुर्थ्यथंग्रौतेदेश्यितया होमान्वये होमजन्यस्वत्वनाशप्रयोजकप्रीतीच्छाविषयत्वं वन्ही न्याय गम्यं यत्प्रोत्युद्देश्यकत्यागजन्यः स्वत्वनाशः स स्वत्वनाशप्रयोजकप्रीतीच्छाविषय इत्येव न्याय: बाक्यार्थविधयाऽप्यत्व प्रौतीछाविषयत्वं न प्रतीयत इति न श्रौतं देवतात्वमितिअचेतनदेवतापक्षे गुरुचरणदर्शिता रोतिरनुसन्धेया । तस्मै पुरभिदे नम इत्यत्र नमःपदस्य नमस्कारोऽर्थः स चोत्कर्षप्रतिपत्त्यनुकूलो व्यापारः तलोत्कर्षप्रकारकप्रतिपत्त्यन्वयिविशेष्यित्वं समवेतत्वं च इयं संबन्धश्चतुर्थ्य /स्तथा च शिवसमवेतशिवविशेष्यताकोत्कर्षप्रकारकप्रतिपत्त्यनुकूलो व्यापारो वाक्याथैः व्यापारस्तु नमःपदप्रयोक्तुरेव बोध्यः यदि चाभिवाद्यस्य नोत्कर्षप्रतीतिस्तदोत्कर्षप्रतिपत्तीच्छव नमस्कारो बोध्यः । अतः शिवसमवेतप्रतिपत्तेनित्यतथा व्यापारस्य तदनुकूलत्वविरहेऽपि न क्षतिः शिवस्य जन्यप्रतिपत्तिविरहेऽपि तद्देश्यकच्छासम्भवात् उत्कर्षप्रतिपत्तेकद्देश्यतयेच्छायामन्वयात् । दू
Aho! Shrutgyanam