________________
विभक्त्यर्थनिर्णये ।
३१७ साधुः “स एषां ग्रामणी"रितिनिर्देशात् अत एव प्रभुबभूषु वनलयस्य य इति माघोऽप्युपपद्यते । वषडिन्द्राय वषडग्नये इत्यत्रापि विहितस्त्यागो वषट्पदार्थः चतुर्थ्याः प्रीतीच्छाप्रयोज्यत्वमर्थः नमःस्वाहायोगवदन्वयः विशेषविधानात् वषट्पदप्रयोगः नमःस्वाहादिशब्दानां प
याणां ग्रहणेन पर्यायस्य हन्तादिशब्दस्य योगेऽपि चतुर्थी ज्ञाप्यते यथा दूदमन्नं सनकादिमनुष्येभ्यो हन्त इत्यत्र विहितस्त्यागो हन्तशब्दार्थः चतुर्थ्याः प्रौतीच्छाप्रयोज्यत्वमर्थः नमःस्वाहादियोगवदन्वयः विशेषविधानादन्तशब्दप्रयोगः बषडाहणं फट्वौषडादिशब्दानामप्युपलक्षके तेन नेत्रत्रयाय वौषट् अस्त्राय फट् इस्यत्र चतुर्युपपद्यते एतदर्थमेव सूत्रे चकारः । काशिकाकृतस्तु चकारः पुनरस्यैव समुच्चयार्थः तेनाशीविवक्षायामपि षष्ठौं बाधित्वा चतुर्येव भवति स्वस्ति गोभ्यो भूयात् स्वस्ति ब्राह्मणेभ्यो भूयादित्याहुः । हृदयाय नम इत्यादी नमःस्वाहावषट्वौषट्फटशब्दाः कुशलार्थकाः चतुर्थ्याआधयत्वं संबन्धः चतुर्थ्यर्थः कुशले न्वेति । हुंशन्दोऽपि वषट्शध्दस्य तदुपलक्षकतयाऽऽशौविवक्षया वा चतुर्थीति । ननु देवान् नमस्यतीत्यत्र नमोयोगे चतुर्थों स्यात् "नमोवरिवश्चित्रङ: क्यजि"ति सूत्रेण नमःशब्दात् करणे क्यविधानेन नमस्यतौतिसिद्धेः नमस्यतेनमस्करीतेश्च नमस्कारानुकूल प्रयत्नार्थकतया फलसमानाधिकरणव्यापारवाचित्वादकर्मकतया तद्योगे हितीयाऽनुपपत्तिश्च यदि च नमस्यतिनमस्करीतौ धातू नमस्कार रूढौ व्याकरणव्युत्पादनमुणादिवहालोपलालनं तदा फलस्यो
Aho! Shrutgyanam