________________
कारकसामान्यविचारः। यघटकसंबधेन नामार्थेऽनन्वयादिति चेन्न । हिविधाधेयत्वस्य सप्तम्यर्थत्वान्युपगमेन संबन्धविशेषानवच्छिन्नान्वयस्य लक्षणेऽप्रवेशात् । एकसंबन्धावच्छिन्ना वयविवक्षणे तु क्रियानिरूपितसंबन्धावच्छिन्न प्रकारतानिरूपितविशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य नामार्थनिठस्य शाब्दाभावस्य प्रयोजकतावच्छेदकत्वमेव नामार्थास्वयप्रयोजकतानवच्छेदकत्वं बोध्यम् । तादृशशाब्दाभावप्रयोजकतावच्छेदकत्वं विभक्त्यर्थतावच्छेदकापादानत्ववादी संभवति । तथा हि । क्रियानिरूपितत्वोपलक्षिततत्संबन्धावच्छिन्नविभक्त्यर्थप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दं प्रति नामजन्योपस्थिते विशेष्यतासंबन्धन प्रतिबन्धकत्वं वक्तव्यम् । न च वृक्षात्यततीत्यादौ विभागासमवायिजनकत्वस्य पञ्चम्यर्थस्य पतन क्रियान्वयिनोऽन्वयेनामार्थस्यायोग्यत्वादेव क्षात्पर्णमित्यादौ शाब्दबोधो न भवति नामजन्योपस्थितेः प्रतिबन्धकत्वमयुक्तामिति वाच्यम् । कचिदयोग्यत्वेऽपि नामार्थस्य सर्वत्र तथात्वविरहात् वृक्षाकर्मेत्यादौ योग्यतायाः सत्वाच्छाब्दापत्तिवारणाय दर्शितप्रतिबध्यप्रतिबन्धकभावावशयकत्वात् । एवं क्रियान्वितापादानत्वाद्यर्थकतत्तविभतर्नाम्ना मममनाकाङ्गत्वेन तोदृशशाब्दाभावप्रयोजकनामनिराकाङ्गत्वाश्रयविभक्तिजन्योपस्थितिप्रकारकत्वात्मकतादृशशाब्दाभावप्रयोजकतावच्छेदकत्वखरूपनामार्थान्वयप्रयोजकतानवच्छेदकत्वं विभक्त्यर्थतावच्छेदकेस्पष्टम् । एवं धातुसाकाकविभक्तिजन्योपस्थितिप्रकारत्वस्वरूपं क्रियान्वयितावच्छेदकत्वमपि स्पष्टम् । तादृशसंबन्धावच्छिन्नविभक्त्यर्थप्रकारतानिरूपितविशेष्यतासं
Aho ! Shtutgyanan