________________
विभक्त्यर्थनिर्णये
च्छिन्नाधेयत्वस्य च द्वयोर्योग विभागेन सप्तम्यर्थत्वप्रतिपादनात् | यहा यादृशसंसर्गेण क्रियायामन्वय स्तादृशसंसौव नामार्थे ऽन्वयो विवक्षितः एवमाधेयत्वसामान्यस्य सप्तम्यर्थत्वो ऽपि न चतिस्तस्य दर्शितपरम्पराधटिताधेयत्वौयस्वरूपसम्बन्धेन क्रियायामन्त्रयात् नामार्थे तु संयोगाद्यवच्छिनाधेयत्वीय स्वरूप सम्बन्धेनेति दर्शितपरम्पराघटिताधेयत्वीय स्वरूपसम्बन्धेनान्वयसम्भवात्सप्तम्यर्थाधेयत्वकारके नाव्याप्तिः । नामार्थान्वयस्तु नामार्थविशे ष्यकशाब्दबोधे बोध्यः अन्यथा सुपां लिङ्गसयातिरिक्तस्वार्थे प्रकृतिभूतनामार्थविशे षकशाब्दजनकत्वनियमादसम्भवापत्तेः । तथापि गगनं न पश्यतीत्यादौ द्वितीयादेः स्वार्थविशे षणक नञर्थविशे ष्यकबोधजनकत्वाद्व्याप्तिरिति नाम्नि निपातातिरिक्तत्व विशेषणम् । यदि ति कर्ट कर्मणोरपि कारकत्व ं तदा न्यायमते तत्राव्याप्तिः तिङः प्रथमान्तार्थविशे ष्यकशाब्दप्रयोंजकत्वादिति विभाव्यते तदा नामार्थान्वयप्रयोजकतावच्छेदके तिर्थतानवच्छेदकत्वं विशेषणम् । सुप्पदस्याने विभक्तिपदं च बोध्यम् । शाब्दिकमते च नाव्याप्तिरतो न तद्दिशेषणम् । ननु यदि क्रियायां नामार्थे चान्वये एकसंबन्धावच्छिनत्वं विशेषणम् तदा सप्तम्यर्थ - कारके ऽव्याप्तिर्दर्शित पर पराघटिता धेयत्वीयसंसर्गेणाधेयत्वविषयकनामार्थविशेष्यकशब्दाप्रसिद्धेः तादृशसंसर्गका धेयत्व विषयकशाब्दबोधौपयिकाकाङ्क्षाया नानि विरहात् तथा च तोदृशशाब्दप्रयोजकतानवच्छेदकत्वघटितलक्षणाप्रसिद्ध्या सर्वत्रैवासंभवः । षष्ठ विना पदान्तरासमभिव्याहृतविभक्तौना मर्थस्य क्रियान्व
Aho ! Shrutgyanam
-